SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २६४] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारज्यायसि । (४-१-१६४ ) ज्येष्ठे भ्रातरि जीवति कनीयांश्चतुर्थादिर्युवसंज्ञश्च स्यात् । १०६२ वान्यस्मिन्सपिण्डे स्थविरतरे जीवति । (४-१-१६५) भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यात् । एकं जीवतिग्रहणमपत्यस्य विशेषणम् , द्वितीयं सपिण्डस्य । तरङ्निर्देश लुक् । शालङ्केयूनश्छात्रा इत्यर्थे 'इनश्च' इत्यणि शालङ्का इति रूपम् । तथा पीलाया गोत्रापत्यं पैलः । ‘पीलाया वा' इत्यण् । पैलस्यापत्यं युवापि पैल एव । 'अणो यचः' इति फिञ् , 'पैलादिभ्यश्च' इति तस्य लुक् । पैलस्य यूनश्छात्रा इत्यर्थे वृद्धाच्छः । पैलीया इति रूपम् । युवगोत्रसंज्ञयोः समावेशे तु 'गोत्रेऽलुगचि' इति फक्फिओरलुक् प्रसज्येतेत्यलम् । भ्रातरि च ज्यायसि । जीवतीत्यनुवर्तते । तदाह-ज्येष्ठे भ्रातरि जीवति कनीयानिति । अनुज इत्यर्थः । पौत्रप्रभृतीत्यनुवृत्तं षष्ठ्या विपरिणम्यते । अपत्यमित्यधिकृतम् । पौत्रादेरपत्यमित्यर्थः। फलितमाह-चतुर्थादिरिति । मृतेष्वपि पित्रादिषु ज्येष्ठे भ्रातरि जीवति युवसंज्ञार्थमिदम् । वाऽन्यस्मिन् । शेषपूरणेन सूत्रं व्याचष्टे-पौत्रप्रभृतेरपत्यं जीवदेव युवसंशं वा स्यादिति । सपिण्डास्तु स्वयम् , पिता, पितामहः प्रपितामहः, तस्य पितृपितामहप्रपितामहाश्चेति सप्त पुरुषाः । एवं मातृवंशेऽपीत्यादि धर्मशास्त्रेषु प्रसिद्धम् । स्थविरतरः अतिवृद्धः । जीवतीति सप्तम्यन्तमनुवृत्तं सपिण्डे इति सप्तम्यन्तेऽन्वेति । अत्रयं तु केयूनश्छात्रा इत्यर्थविवक्षायाम् ‘इञश्च' इत्यणि शालङ्का इति भवति । तथा पीलाया अपत्यं गोत्रापत्यं वा 'पीलाया वा' इत्यणि पैलः । तस्यापत्यं युवा 'अणो यचः' इति फिञ् । तस्य 'पैलादिभ्यश्च' इति लुक् । ततः पैलस्य यूनश्छात्राः पैलीया इति भवति । तत्र गोत्रयूनोः समावेशे तु 'गोत्रे लुगचि' इति फफिओरलुक् प्रसज्येत । न च परत्वाथूनि लुग्भविष्यतीति सिद्धमिष्टमिति वाच्यम् । ततोऽपि परत्वात् 'फक्फिओरन्यतरस्याम्' इति विकल्पापत्तेः । न च सिद्धान्तेऽपि विकल्पः शङ्कयः, 'फक्फिओः' इत्ययं हि यूनि लुक एवापवादः, न तु 'पैलादिभ्यश्च' इत्यस्य, 'अनन्तरस्य-' इति न्यायात् । यद्यपि यूनि लुगपवादोऽपि 'फक्फिओ:-' इति विकल्पः परत्वात् 'पैलादिभ्यश्च' इति लुकमपि बाधेतेति वक्तुं शक्यम् , तथापि परादप्यन्तरङ्गस्य बलीयस्त्वात् 'पैलादिभ्यश्च' इति नित्य एव लुगित्याहुः । भ्रातरि च । अवंश्यार्थोऽयमारम्भः। भ्राता हु न वंश्यः 'उत्पादकप्रबन्धो वंशः' इत्यभ्युपगमात् । 'अपत्यं पौत्रप्रभृति-' इत्यनुवयं 'पौत्रप्रभृतेः' इति षष्ठया विपरिणम्य व्याख्यानात्फलितमाह--चतुर्थादिरिति । अत्रायमर्थ:-गर्गादिषु मृतेष्वपि जीवत्यग्रजे अनुजो युवसंज्ञक इति । वान्यस्मिन् । इहत्यं जीवतिपदं तिङन्तम् , न तु सप्तम्यन्तमिति व्याचष्टे-जीवदे
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy