________________
प्रकरणम् २६ ] बालमनोरमान्तत्त्वबोधिनीसहिता। [२६३ १०६० जीवति तु वंश्ये युवा । (४-१-६३) वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तावसंज्ञमेव, न तु गोत्रसंज्ञम् । १०६१ भ्रातरि च इति सूत्रे भाष्ये व्युत्पादितत्वात् । तथा च पौत्रादयोऽपि पितामहादीनां नरकादुद्धार इति तेषामप्यपत्यत्वमस्त्येवेति ‘एको गोत्रे' इति सूत्रभाष्ये स्पष्टम् । एतच्च महाभारतादौ जरत्कार्वाद्युपाख्यानेषु प्रसिद्धमेव । कोशस्तु सूत्रभाष्यादिविरुद्धत्वाद् उपेक्ष्य एव । न चैवमपि गर्गस्य पुत्रोऽपि अङ्गिरसः पौत्रत्वाद्गोत्रं स्यादिति वाच्यम् , यस्य यः पौत्रादिः तस्य तद्गोत्रमिति व्याख्यानादित्यलम् । जीवति । वंश उत्पादकपित्रादिपरम्परा, तत्र भवो वंश्यः, दिगादित्वाद्यत् , तदाह-वंश्ये पित्रादौ जीवतीति । जीवतीति सप्तम्यन्तम् । पौत्रादेरिति । पूर्वसूत्रात्पौत्रप्रभृति इत्यनुवृत्तं षष्ठया विपरिणम्यत इति भावः । यदपत्यमिति । 'तस्यापत्यम्' इत्यतस्तदनुवृत्तेरिति भावः। तुरवधारणे युवेत्यनन्तरं द्रष्टव्यः, तदाह-युवसंज्ञमेवेति । तेन एकसंज्ञाधिकारबहिर्भावेऽपि गोत्रसंज्ञाया अपि अस्मिन् न समावेश इति भावः । युवसंज्ञया सह गोत्रसंज्ञायाः समावेशे तु शालङ्का इति पैलीया इति च न स्यात् । शलकुः कश्चित् , तस्य गोत्रापत्यं शालङ्किः, इञ् । पैलादिगणे शालङ्कीति पाठात् प्रकृतेः शलङ्कादेशश्च । शालङ्करपत्यं युवापि शालङ्किरेव । 'यजिनोश्च' इति फक् । 'पैलादिभ्यश्च' इति तस्य चेत् । अत्राहुः-'ते तद्राजाः' इत्यत्र तच्छब्देन 'जनपदशब्दात् क्षत्रियादञ्' इत्यादिना विहिता ये अजादयस्त एव गृह्यन्ते न तु ततः प्राक्तनप्रत्ययाः, गोत्रयुवसंज्ञाकाएडेन विच्छिन्नत्वादिति वक्ष्यते । तथा चापत्याधिकारपठनसामर्थ्यस्योपक्षयादपत्यस्यासम्बन्धशङ्कानिराकरणाय पुनरपत्यग्रहणमिह कृतमिति । पौत्रप्रभृतीति किम् , अनन्तरापत्ये मा भूत् । कौञ्जिः, गार्गिः । न चैवमप्यङ्गिरसः पौत्रे गर्गस्यानन्तरे अतिप्रसङ्ग इति वाच्यम् । 'यस्य पौत्रादि तं प्रत्येव गोत्रसंज्ञा' इति स्वीकारात् । एवं च गागि प्रत्यनन्तरापत्यत्वेन विवक्षायामपि गर्ग प्रति गोत्रत्वं निष्प्रत्यूहमिति स्यादेव गर्गाद्यनिति दिक् । जीवति तु वंश्ये । पितृपितामहाद्युत्पादकप्रबन्धो वंशः, तत्र भवो वंश्यः । दिगादित्वाद्यन् । 'पौत्रप्रभृति' इत्यनुवृत्तं षष्टया विपरिणम्यते व्याख्यानात् , 'गोत्रायन्यस्त्रियाम्' इति लिङ्गाम्चेत्याह-पौत्रादेरिति । तुशब्दो भिन्नक्रमो युवेत्यस्मात्परो बोध्यः । स च एवकारार्थ इति व्याचष्टे--युवसंज्ञमेवेति । तेन एकसंज्ञाधिकारबहिर्भूतयोरपि गोत्रयुवसंज्ञयोन समावेश इति भावः । नन्वस्तु संज्ञाद्वयस्य समावेशः को दोष इति चेत् । मैवम् । शालङ्काः पैलीया इत्यसिद्धिप्रसङ्गात् । तथा हि । शलङ्करपत्यं शलङ्किः । पैलादिषु पाठादिश्शलङ्कादेशौ । शालङ्करपत्यम् । शालथैर्युवापत्यं 'यमिओश्च' इति फक्, तस्य 'पैलादिभ्यश्च' इति लुक, ततः शाल