________________
२६२ ]
सिद्धान्तकौमुदी |
[तद्धितेष्वपत्याधिकार
1
श्राश्वपतः । दैत्यः । श्रौत्सः । स्त्रैणः । पौनः । १०८६ अपत्यं पौत्रप्रभृति गोत्रम् । ( ४-१-१६२ ) अपस्यस्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् । सूत्रादिति । जातित्वादिति । अपत्यार्थ काणन्तस्य औपगवशब्दस्य 'गोत्रं च चरणैः सह' इति जातित्वाद् ङीषित्यर्थः । श्रश्वपत इति । श्रश्वपतेरपत्यमिति विग्रहः । पत्युत्तरपदलक्षणं रायं बाधित्वा 'अश्वपत्यादिभ्यश्च' इत्यणिति भावः । दैत्य इति । दितेरपत्यमिति विग्रहः । 'दिव्यदिति -' इति रायः अणपवादः । श्रौत्स इति । उत्सः कश्चित् तस्यापत्यमिति विग्रहः । 'उत्सादिभ्योऽञ्' इत्यञ् इजाद्यपवादः । स्वरे विशेषः । स्त्रैणः पौंस्न इति । स्त्रिया अपत्यम्, पुंसोऽपत्यमिति विग्रहः । 'स्त्रीपुंसाभ्याम् -' इति नञ्न अणोऽपवादः । अपत्यम् । अपत्याधिकारात् सिद्धे पुनरपत्यग्रहणं व्यर्थमित्यत आह- अपत्यत्वेन विवक्षितमिति । एवं च पौत्रत्वादिना विवक्षितानां पौत्रादीनां न गोत्रसंज्ञेति भावः । 'सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।' इति कोशतः गोत्रब्दस्य सन्ततिवाचकत्वात् पुत्रस्यापि गोत्रत्वे प्राप्ते पौत्रादिग्रहणादिह शास्त्रे पुत्रस्य न गोत्रत्वम् । ननु आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे ।' इत्यादिकोशाद् अपत्यशब्दस्य पुत्र एव रूढत्वात् कथम् 'अपत्यं पौत्रप्रभृति - ' इति सामानाधिकरण्यगिति चेत्, मैवम् - अपत्यशब्दो हि नात्मजपर्यायः, किंतु पुत्रपौत्रादिसंततिपर्यायः, न पतन्ति नरके पितरो येन तदपत्यमिति 'पङ्क्तिविंशति - '
1
इत्यनेनेति शेषः। प्राचा तु ‘अणन्तत्वान्ङीप्' इत्युक्तम् । तद्व्याख्यातृभिश्च ‘टिड्डाणञ्-' इत्यनेनेत्युक्तम् । तदुभयमपि 'गोत्राद्यून्यस्त्रियाम्' इति सूत्रस्थभाष्यानुरोधेन । गोत्रं च चरणैः-' इत्यत्र कृत्रिमं गोत्रमेव गृह्यते न त्वपत्यमात्रमित्याशयेन प्रवृत्तमिति बोध्यमित्याहुः । सूत्रस्थान्महोत्सर्गान्क्रमेणोदाहरति - श्राश्वपत इत्यादि । श्रौत्स इति । 'उत्सः प्रखवणं वारि प्रवाहो निर्झरो झरः' इत्यमरः । तस्य चापत्येन योगस्तु 'गाङ्गेयो भीष्मः' इतिवत् । अपत्यं पौत्र । नन्वपत्यग्रहणं व्यर्थं पौत्रादेरपत्यत्वाव्यभिचारादित्यत आह- अपत्यत्वेन विवक्षितमिति । विवक्षितमिति किम्, वस्तुतः पौत्रप्रभृत्येव यदा शेषत्वेन विवक्ष्यते 'गर्गस्येदम्' इति, तदा मा भूदित्याहुः । अन्येतु वस्तुतः पौत्रादीनामेव तत्त्वेन विवक्षायां संज्ञा मा भूत्, अपत्यत्वेन विवक्षायामेव यथा स्यादित्येवमर्थं तत् । तेन श्रौपगव इत्यादावप्यणर्थस्य गोत्रसंज्ञा सिद्धयति । नह्यणः पौत्रत्वादिकं शक्यतावच्छेदकं किं त्वपत्यत्वमेव । अन्यथा गोत्राधिकारस्थयआद्यर्थस्यैव गोत्रसंज्ञा स्यादिति । नन्वपत्याधिकारे गोत्रयुवसंज्ञाकरणसामर्थ्यादपत्यमिति लभ्यत एवेति तेनैवोक्तप्रयोजनसिद्धौ किमनेनात्रापत्यग्रहणेनेति