________________
प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६१ मा भूत् । वाग्रहणाद्वाक्यमपि । 'देवयज्ञि-' (सू० १२०१ ) इति सूत्राद् 'अन्यतरस्यां ग्रहणानुवृत्तेः समासोऽपि। उपग्वपत्यम् । जातित्वान्डीष्-औपगवी। भवति, उपगोर्वस्त्रेणैवान्वयात् । यद्यपि तत्सम्बन्ध्यपत्ये प्रत्ययविधानाद् इह च अपत्यस्य तच्छब्दवाच्योपगुसम्बन्धाभावादेव अत्र प्रत्ययस्य न प्रसक्तिः । तथापि ऋद्धस्य औपगवमित्यादिवारणाय सामर्थ्यमेका भावलक्षणमाश्रयणीयमिति भावः । अपत्यवाचकादिति । उपगुरपत्यमस्य देवदत्तस्येत्यर्थे औपगवो देवदत्त इति माभूदित्यर्थः । प्रथमादित्युक्तौ तु 'तस्यापत्यम्' इति सूत्रे षष्ठयन्तस्यैव प्रथमोच्चारितत्वादुपगुरिति प्रथमान्ताद् न भवतीत्यर्थः । वाग्रहणाद्वाक्यमपीति । वाग्रहणाभावे हि तद्धितस्य नित्यत्वादुपगोरपत्यमिति वाक्यं न स्यादिति भावः । ननु उपग्वपत्यमिति कथं षष्ठीसमासः, तद्धितानां समासापवादत्वात् । न च तद्धितानां पाक्षिकत्वात्तदभावपक्ष षष्ठीसमासो निर्बाध इति वाच्यम्, 'अपवादेन मुक्ते उत्सर्गो न प्रवर्तते' इति 'पारे मध्ये षष्ठया वा' इति वाग्रहणेन ज्ञापितत्वादित्यत आह-देवयज्ञीति । इत्यादि स्यात् 'अश्विमानण्' इत्यादिनिर्देशश्चेह लिङ्गम् । यदि तु पामादिगणे 'विष्वगित्युत्तरपदलोपश्च' इत्यत्राकृतसंधिग्रहणेन 'परिनिष्ठितात्तद्धितोत्पत्तिः' इत्यभ्युपगम्यते' तर्हि व्यर्थमेव समर्थग्रहणमित्याहुः। प्रथमात्किमिति । 'तस्यापत्यम्' इत्यत्र निर्दिष्टपदद्वयमध्ये प्राथमिकमेव प्रकृतिसमर्थकम् , न त्वपत्यम् । तथा च प्रकृत्याकाक्षायां तदेव ग्रहीष्यत इति किं तेन 'प्रथमात्' इत्यनेनेति प्रश्नः । अपत्यवाच. कादिति । 'तस्यापत्यम्' इत्यादिना विहितः प्रत्ययो यथा षष्ठयन्तोपग्वादिशब्दादभ्युपगम्यते, तथा अपत्यवाचकदेवदत्तादिशब्दात्प्रत्ययो भवत्विति शङ्का स्यात् , तद्वारणार्थ प्रथमाद्ग्रहणमावश्यकमिति भावः । ननु 'उपगोरपत्यम्' इति विग्रहवाक्येऽपत्यवाचकस्याप्राथम्येऽपि 'अपत्यमुपगोः' इति वाक्ये प्राथम्यात्स्यादेवापत्यवाचकात्प्रत्यय इति चेत् । मैवम् । लक्षणापेक्षं प्राथम्यं नियतत्वादत्राश्रीयते, न तु विग्रहापेक्षमनियतम् । अन्यथा 'प्रथमात्' इत्येतन्निरर्थकं स्यादिति । षष्ठयर्थे माभूदिति । अयमर्थः-यथा इन्द्रो देवता अस्य हविष इति ऐन्द्रं हविरिति प्रथमान्तात्प्रत्ययो भवति तथा उपगुरपत्यमस्य देवदत्तस्य 'औपगवो देवदत्तः' देवदत्तोऽपत्यमस्योपगोः दैवदत्तिरुपगुः' इति माभूदिति । एतच्च कैयटे स्पष्टम् । नन्वपवादत्वात्तद्धितः समासं नित्यं बाधेत । न च तद्धितस्य वैकल्पिकत्वात्पः सोऽपि भविध्यतीति वाच्यम् । 'यत्रोत्सर्गापवादौ महाविभाषया विकल्प्येते, तत्रापवादेन विनिर्मुक्ते उत्सर्गो न प्रवर्तते' इति 'पारेमध्ये-' इत्यत्र वाग्रहणेन ज्ञापितत्वादित्याशङ्कयाहअन्यतरस्यांग्रहणानुवृत्तेरिति । जातित्वादिति । 'गोत्रं च चरणैः सह'