________________
२६० ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारभाषया नेह-वस्त्रमुपगोरपत्यं चैत्रस्य । प्रथमात् किम्-अपत्यवाचकाषष्ठ्यर्थे समर्थग्रहणलब्धं कृतसन्धेरित्येतत् किमर्थमिति प्रश्नः । सौस्थितिरिति । सु शोभन उत्थितः सूत्थितः । प्रादिसमासे सवर्णदीर्घः सूत्थितस्यापत्यं सौत्थितिः, अत इञ्, सुब्लुक्, आदिवृद्धिः, 'यस्येति च' इत्यकारलोपः । कृतसन्धेरित्यभावे तु सु उत्थित इत्यस्यामेव दशायां सवर्णदीर्घात्परत्वादादिवृद्धौ कृतायामावादेशे सावुत्थितिरिति स्यादिति भावः । नन्वन्तरङ्गत्वात्सवर्णदीर्घ कृते तदुत्तरमेव इप्रत्यय उचितः, परादन्तरणस्य बलवत्त्वात् । ततश्च सन्धेः प्राक् तद्धितोत्पत्तेरप्रसक्तेः कृतसन्धेरिति व्यर्थमेवेत्यत आह-अकृतेति । अन्तरङ्गपरिभाषाया अप्यपवादभूतया अकृतव्यूहपरिभाषया सन्धेः प्रागेव प्रत्ययः स्यात् । ततश्च आदिवृद्धयपेक्षया अन्तरङ्गोऽपि सवर्णदीर्घः अकृतव्यूहपरिभाषया आदिवृद्धः प्राङ् न प्रवर्तते । एवं च सवर्णदीर्घात्प्रागवादिवृद्धौ आवादेशे सावुत्थितिरिति स्यादित्यर्थः । नच इञि सति कृते सवर्णदीर्घ ऊकारस्य जायमानया वृद्धया सवर्णदीर्घनिमित्तस्य कस्यचिद्विनाशाभावादकृतव्यूहपरिभाषायाः कथमिह प्रवृत्तिरिति वाच्यम् , यदि सवर्णदी? न स्यात्तदा सु उत्थित इत्यवस्थायां सकारादुकारस्य वृद्धथा औकारे सति सवर्णदीर्घनिमित्तस्य अको विनाशः स्यादिति सम्भावनया अकृतव्यूहपरिभाषायाः प्रवृत्तेरिति कथञ्चिद्योज्यम् । वस्तुतस्तु अकृतव्यूहपरिभाषा नास्त्येव, भाष्ये क्वाप्यव्यवहृतत्वात् , प्रत्युत भाष्यविरुद्धत्वाच्च । 'विप्रतिषेधे परं कार्यम्' इति सूत्रभाष्ये हि परादन्तरङ्गं बलीयः इत्युक्त्वा सौस्थितिरित्यत्र परामप्यादिवृद्धिं बाधित्वा अन्तरङ्ग एकादेश इत्युक्तम् । पदस्य विभज्यान्वाख्याने सु उत्थित इति स्थिते परत्वाद् वृद्धिः प्राप्ता, अन्तरङ्गत्वादेकादेश इति कैयटः । अकृतव्यूहपरिभाषासत्त्वे तदसंगतिः स्पष्टैव । सेदुष इत्यादौ अकृतव्यूहपरिभाषाफलस्यान्यथासिद्धिस्तु तत्र तत्र प्रपञ्चितेवेत्यास्तां तावत् । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः । वस्त्रमुपगोरपत्यं चैत्रस्येति । अत्र उपगुशब्दादपत्ये अण् न आह-वृद्धानीति । प्रातिपदिकानीति शेषः । कृतसंधेः किमिति । अन्तरङ्गत्वात् संधौ कृतायां तदुत्तरमेव प्रत्ययो भविष्यतीत्यधिकारसूत्रस्थं समर्थपदग्रहणं किमर्थमिति प्रश्नः । अकृतेति । इयं च परिभाषा समर्थग्रहणेन ज्ञापितेति हरदत्तादयः, लोकतः सिद्धत्यन्ये । सावुत्थितिर्माभूदिति । अन्तरङ्गपरिभाषाया अप. वादभूतया 'अकृत-' इत्यनया अकृतसंधेरेव प्रत्ययः स्यात् । तन्निवारणाय समर्थः ग्रहणमधिकारसूत्रस्थमावश्यकमिति भावः । यद्यपि तत्र 'सामर्थ्य परिनिष्ठितत्वम् इत्यविशेषेणोक्तम् , तथापि ड्या प्रातिपदिकांशे एव परिनिष्ठितस्वं न तु सुब्विशिष्टे इत्यवधेयम् । तेन औपगवः दण्डिमानित्यादि सिद्धम् । अन्यथा 'औपगवदण्डीमान्'