SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८६ उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनम् ॥ (वा २१८१-२५८४) योगविभागस्तु-भानोरपत्यं भानवः । कृतसन्धेः किम्-सौस्थितिः, अकृतव्यूहपरिभाषया सावुस्थितिर्मा भूत् । समर्थपरित्यर्थः । ननु 'वृद्धाच्छः' इति सूत्रं शेषाधिकारस्थम्' अपत्यादिचतुरर्थ्यन्तेभ्योऽन्यः शेषः। तथा च अपत्यार्थस्य शेषाधिकारस्थत्वाभावात् तस्मात्तत्र छप्रत्ययस्याप्रसक्तस्तद्वा. धनार्थत्वं 'तस्यापत्यम्' इत्यस्य कथमित्यत श्राह-उत्सर्गः शेष एवासाविति । उत्सृज्यते अदन्त-बाह्वादिप्रकृतिभ्यो वियुज्यत इत्युत्सर्गः । कर्मणि घञ् । अदन्तबाह्वादिभिन्न प्रकृतिसम्बद्धः अपत्यार्थोऽसौ शेषो भवत्येवेत्यर्थः। श्राक्षप्तुर्हि 'तस्यापत्यमत इब्' इत्येकसूत्रमभिमतम् । विनियुक्तादन्यः शेषः । अदन्त-बाह्वादिप्रकृतिसंयुक्तापत्यार्थ एव विनियुक्तः । न तु तद्भिन्नप्रकृतिसंयुक्तापत्यार्थोऽपि । ततश्च तस्य शेषत्वात्तस्मिन्नपत्ये छस्य प्रसक्तत्वात् तद्वाधनार्थे 'तस्यापत्यम्' इति पृथक्सूत्रम् । सति चास्मिन् पृथक्सूत्रे प्रकृतिसामान्यसंयुक्तापत्यार्थस्योपयुक्तत्वादशेषत्वाच्छस्य न प्राप्तिरित्यप्राप्तिसम्पादनद्वारा छबाधकत्वं 'तस्यापत्यम्' इति पृथक्सूत्रस्य सिद्धम् । अयमप्राप्तबाध इत्युच्यते। नन्वेवमपि उपगोरपत्यमित्यत्र उपगोरवृद्धत्वाच् छस्य नैव प्रसक्तिरिति किं पृथक्सूत्रेणेत्यत आह-वृद्धान्यस्य प्रयोजनमिति । भानोरपत्यं भानव इत्यादौ यानि भान्वादिप्रातिपदिकानि वृद्धानि, यानि उपग्वादिप्रातिपदिकानि नामधेयत्वाद् वृद्धानि, तेभ्यश्चप्रत्ययबाधनार्थ 'तस्यापत्यम्' इति पृथक्सूत्रमि. त्यर्थः। ननु 'तस्येदम्' इत्यणि इदन्त्वेन बोधः । तस्यापत्यम्' इत्यणि तु अपत्यत्वेन बोध इति शाब्दबोधे वैलक्षण्यसत्त्वात् , 'तस्येदमित्यपत्येऽपि' इत्याक्षेप एवायमनुपपन्न इति चेद् न-एतद्वार्तिकभाष्यप्रामाण्येन 'तस्येदम्' इति इदंशब्देन अपत्यस्य इदंत्वेन ग्रहणाभावविज्ञानात् । 'प्रदीयतां दाशरथाय मैथिली' इति त्वार्षत्वान दुष्यतीत्यास्तां तावत् । कृतसन्धेः किमिति । 'समर्थानां प्रथमाद्वा' इत्यधिकारसूत्रस्थ. 'तस्येदम्' इत्यणस्तदपवादस्य वृद्धाच्छस्य च शैषिकत्वादपत्यार्थे प्रसक्तिरेव नास्ति, 'अपत्यादिचतुरर्थीपर्यन्तेभ्यो योऽन्योऽर्थः स शेषः' इत्यभ्युपगमादत आहउत्सर्गः शेष एवासाविति । असौ अपत्यार्थः । अयं भावः-असति योगविभागे अदन्तबाह्वादिप्रकृतिसंबद्धस्यैवापत्यार्थस्योपयोगादुपग्वादिप्रकृतिसंबद्धोऽपत्यार्थः शष एव स्यात् । तथा चाणं बाधित्वा भान्वादिभ्यो वृद्धाच्छः प्रसज्येत । योगविभागे तु कृते प्रकृतिसामान्यसंबन्धस्याप्यपत्यार्थस्योपयोगाच्छेषत्वाभावेन छस्य प्राप्तिरेव नास्तीति । ननु उपग्वादेरवृद्धत्वेन छस्य प्रसक्त्यभावान्निष्फलो योगविभाग इत्यत १ 'अदन्तबाहादिप्रकृति-' इति क ।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy