________________
२८८]
सिद्धान्तकौमुदी । [तद्धितेष्वपत्याधिकार
तस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत् ।
पाठात् । तत्र यद्यादिवृद्धिरन्त्योपधावृद्धी न बाधेत, तदा दिवृद्धया उपधावृद्धया च पौष्करसादेः सिद्धत्वाद् अनुशतिकादी पुष्करसच्छन्दपाठोऽनर्थकः स्यात् । अतस्तत्रकौण्डिन्यन्यायात् सत्यपि सम्भवे बाधनं भवति इति विज्ञायत इति भाष्ये स्पष्टम् । तस्येदमित्यपत्येऽपीत्यादि । श्लोकवार्तिकमिदम् । तत्र प्रथमचरणस्यायमर्थ:तस्येदमिति विहितः अण् अपत्येऽर्थेऽपि भवति, इदमर्थे तस्याप्यन्तर्भावात् । अतस्तस्यापत्यमित्यविधानं व्यर्थमित्याक्षेपः । नच 'अत इञ्' इत्याद्युत्तरसूत्रार्थं ' तस्यापत्यम्' इत्यावश्यकमिति वाच्यम्, एवं हि सति 'तस्यापत्यमत इज्' इत्येकमेव सूत्रमस्तु । तथा च 'तस्यापत्यम्' इति पृथक्सूत्रकरणं व्यर्थमित्यात्क्षेपः पर्यवस्यति । अत्र समाधत्ते - बाधनार्थं कृतं भवेदिति । ' तस्येदम्' इत्यणं बाधित्वा ‘वृद्धाच्छः' इति छः अपत्ये प्राप्तः, तद्बाधनार्थं 'तस्यापत्यम्' इति पृथक्सूत्रं कृतमिअन्त्योपधावृद्धयोरवकाशः-गौः, पाचकः । आदिवृद्धेस्तु सुश्रुत सौश्रुतः । ' त्वाष्ट्रो जागतः' इत्यादौ तूभयप्रसङ्गे परत्वादादिवृद्धिरेव भवति । लक्ष्यानुरोधेनात्र सद्गति - न्यायस्यैवाश्रयणात् । अनुशतिकादिषु पुष्करसच्छब्दपाठोऽप्यत्र लिङ्गम् । अन्यथा श्राद्युपधावृद्धिभ्यां पौष्करसादेः सिद्धत्वात्तेषु पाठोऽनर्थकः स्यात् । न च 'पुष्करसदा चरति' इत्यर्थे ठकि 'पौष्करसादिक' इत्येतदर्थमनुशतिकादिपाठ आवश्यकः, बिति मित्येव उपधावृद्धेः स्वीकारान्न तु कितीति वाच्यम्, अनभिधानाट्ठगत्र न भवतीत्यादिसमाधानस्य कैयटे स्थितत्वात् । एतेन भिन्नविषये बाध्यबाधकभावो नोपपद्यत इति शङ्का निरस्ता । उक्तज्ञापकेन 'सत्यपि संम्भवे बाधनं भवति' इत्यवश्याश्रयणीयत्वात् । नन्वेवमपि ‘जागतः’ इत्यादावुपधावृद्धिर्बाध्यताम्, श्रपगव इत्यत्र त्वादिवृद्धि प्रवृत्तिवेलायामुपधावृद्धेरप्राप्त्या कथं बाधः स्यादिति चेत् । अत्राहुः -- जागत इत्यादावुपधावृद्धेर्बाध्यत्वे निर्णीते क्वचित्कालान्तरप्राप्ताया अपि तस्या बाध्यत्वौचित्यादिति । स्यादेतत्-यत्रादिवृद्धिर्न जाता तत्रान्त्योपधालक्षणा वृद्धिः कस्मान्न भवति । व्यसो - र्भावो वैयसवम् । ‘इगन्ताच्च' इत्यण् । व्यापदि भवं वैयापदम् । 'तत्र भवः' इत्यण् । अत्र कैयटः- तत्राप्यैचौ परत्वात्तद्वाधकाविति सर्वेष्टसिद्धिरिति । शाब्दबोधवैलक्षण्यसत्त्वेऽपि तदनादरेणाक्षिपति — तस्येदमित्यपत्ये ऽपीति । इदमर्थे अपत्यसमूहविकारादीनामन्तर्भावादपत्येऽपि 'तस्येदम्' इत्यण् प्रवर्तत इति किमनेन 'तस्यापत्यम्' इति सूत्रेणेत्यर्थः । यद्यपि 'अत इञ्' इत्याद्यर्थं 'तस्यापत्यम्' इत्येतद्वक्तव्यम् । तथापि योगविभागः किमर्थ इत्याक्षेपोऽत्र बोध्यः । समाधत्ते - बाधनार्थमिति । 'तस्येदम्' इत्यस्य यद्वाधकं 'वृद्धाच्छः' इति तद्बाधनार्थं पृथक् सूत्रं कृतं भवेदित्यर्थः । ननु