SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८७ णाश्च प्रत्यया वा स्युः । उपगोरपत्यमौपगवः। प्रादिवृद्धिरन्त्योपधावृद्धी बाधते । देरपत्यमित्यर्थं तद्धिताः प्रत्ययाः परे भवन्तीति लभ्यते । कस्मात्परे प्रत्यया भवन्तीत्याकाङ्क्षायां 'समर्थानां प्रथमाद्वा' इत्यधिकारात् प्रथमोच्चारितात्समर्थात्तच्छब्दलब्धोपग्वादेरिति लभ्यते । प्रातिपदिकादित्यधिकृतम् । “घकालतनेषु कालनाम्नः' इति तरप्तमप्तनेषु तद्धितेषु परतः सप्तम्या अलुग्विधानात्सुपस्तद्धितोत्पत्तेापितत्वात् सुप्शिरस्कात्प्रातिपदिकादिति लभ्यते । सुप् चेह तस्येति प्रथमोच्चारिते पदे उपस्थि. तत्वात् षष्ठयेव गृह्यते ततश्च षष्ठयन्तादिति फलति । सामर्थ्य कृतसन्धिकार्यत्वमित्युक्तमेव, तदाह-षष्ठयन्तात्कृतसन्धेरिति । 'समर्थः पदविधिः' इति परि. भाषया लब्धमाह-समर्थादिति । विशिष्टैकार्थप्रातिपदिकादित्यर्थः । सुबन्तात्तद्धितोत्पत्त्या तद्धितविधीनां पदविधित्वादिति भावः । उक्ता इति । 'प्राग्दीव्यतोऽण' इत्याद्या श्रौत्सर्गिका इत्यर्थः । वक्ष्यमाणाश्चेति । 'अत इञ्' इत्याद्या वैशेषिका इत्यर्थः । वा स्युरिति । 'समर्थानां प्रथमावा' इत्यधिकृतत्वादिति भावः । 'अपत्यं पौत्रप्रभृति गोत्रम्' इति उत्तरसूत्रव्याख्यावसरे अपत्यशब्दो व्याख्यास्यते । औपगव इति । उपगोरणि आदिवृद्धिः, ओर्गुणः, अवादेशः । अत्र प्रकृत्यैव उपगोर्लाभाद् अपत्यमेव प्रत्ययार्थ इति स्थितिः । ननु उपगु अ इति स्थिते ओर्गुणात्परत्वाद् 'अचो णिति' इति वृद्धिः स्यात् , ओर्गुणस्य पशव्य इत्यादौ चरितार्थत्वात् । कृते च गुणे श्रवादेशे सति 'अत उपधायाः' इति वृद्धिर्दुर्निवारा । त्वष्टुरपत्यं त्वाष्ट्रः, मघवतोऽपत्यं माघवत इत्यादौ गुणाप्रसक्तया अन्त्योपधावृद्धयोनिधित्वाच्च । न च परत्वादादिवृद्धौ अन्त्योपधावृद्धी बाध्येते इति वाच्यम् , विप्रतिषेधे हि परस्य पूर्वबाधकता, न चेह विप्रतिषेधोऽस्ति, देशभेदेनोमयसम्भवात् । नाप्यन्त्योपधावृद्धयोरपवाद आदिवृद्धिरिति वक्तुं शक्यम् , सुश्रुतोऽपत्यं सौश्रुत इत्यादौ अन्त्योपधावृद्धयोरप्राप्तयोरप्यादिवृद्धेः प्रवृत्तेः, तस्मादादिवृद्धिस्थले अन्त्योपधावृद्धी स्यातामित्यत आह-आदिवृद्धिरिति । 'अचो णिति' इत्यन्त्यवृद्धिम् 'अत उपधायाः' इत्युपधावृद्धिं च आदिवृद्धिर्बाधत इत्यर्थः । पुष्करसदोऽपत्यमित्यर्थे बाह्वादित्वादिञ् , 'अनुशतिकादीनां च' इत्युभयोः पदयोरादिवृद्धिः । पुष्करसदशब्दस्य अनुशतिकादौ तु षष्ठयन्तमात्रोपलक्षणमित्याशयेनाह-षष्ठयन्तादिति । पञ्चम्यर्थोऽध्याहारलभ्यः। अनुकरणात्पञ्चम्याः सौत्रो लुग्वा । उक्ता इति । अरण्यादय उक्ताः । वदयमाणा इति । इादयः । ननु 'उपगु अ' इति स्थिते श्रोर्गुणात्परत्वाद् 'अचो णिति' इति वृद्धया भाव्यम् । गुणस्तु पिचव्यादौ सावकाशः। कृते च गुणे अवादेशे च 'अत उपधायाः' इति वृद्धघा भाव्यमत आह-आदिवृद्धिरिति। परत्वादिति भावः।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy