________________
२८६ ]
सिद्धान्तकौमुदी । [तद्धितेष्वपत्याधिकार
तुल्वलः, तत इजि फक्- - तौस्वलिः पिता, तौल्वलायनः पुत्रः । १०८७ फक्फिञोरन्यतरस्याम् । (४-१-११) 'यूनि लुक्' ( सू १०८३) इति नित्ये लुकि प्राप्ते विकल्पार्थं सूत्रम् । कात्यायनस्य छात्राः कातीयाः, कात्यायनीयाः । यस्कस्यापत्यं यास्कः, शिवाद्यण्, तस्यापत्यं युवा यास्कायनिः । 'अणो द्व्यचः ' ( सू ११८० ) इति फिञ् । तस्य छात्रा यास्कीया यास्कायनीयाः । १०८८ तस्यापत्यम् । (४-१-६२) षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येऽर्थे उक्ता वच्यमा न तौल्वलिभ्यः । बहुवचनात्तौल्वल्यादीनां ग्रहणमित्याह -- तौल्वल्यादिभ्यः परस्येति । पूर्वेणेति । 'इञः प्राचाम्' इत्यनेन प्राप्तो लुगनेन प्रतिषिध्यत इत्यर्थः । तुल्वल इति । तुल्वलो नाम प्राच्यः कश्चित् । तस्य गोत्र पत्यं तौल्वलिः । अत इञ् । तस्यापत्यं युवा तौल्वलायनः । ' यञिञोश्च' इति फक् । 'इञः प्राचाम्' इति लुङ् नेत्यर्थः । अथ प्रकृतं चातुर्थिकं लुग्विधिमनुसरति । फक्फिञोरन्यतरस्याम् । यूनीत्येवेति । 'यूनि लुक्' इति पूर्वसूत्रमनुवर्तत इत्यर्थः । 'यूनि लुक्' इत्युक्तो लुक् फक्फिोर्वा स्यादित्यर्थः । तदाह - पूर्वेणेति । कात्यायनस्येति । कतस्य गोत्रापत्यं कात्यः । गर्गादित्वाद्यञ् । तस्यापत्यं युवा कात्यायनः । 'यञिञोश्च' इति फक् । कात्यायनस्य छात्रा इत्यर्थे 'तस्येदम्' इत्यनुवृत्तौ 'वृद्धाच्छः' इति छः, ईयादेशः । अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थकफको लुकि सति काव्य ईय इति स्थिते 'यस्येति च' इत्यकारलोपे 'आपत्यस्य च -' इति यलोपे कातीया' इति रूपम् । फको लुगभावे तु कात्यायनीया इति रूपमित्यर्थः । यस्कस्येति । यस्कस्य गोत्रापत्यमित्यर्थे 'अत इञ्' इति इञपवादः शिवायणित्यर्थः । तस्येति । यास्कस्यापत्यं युवेत्यर्थे ‘अणो द्यचः' इति फिनि प्रायन्नादेशे यास्कायनिरिति रूपमि - त्यर्थः । तस्य छात्रा इति । यास्कायनेश्छात्रा इत्यर्थे 'तस्येदम्' इत्यनुवृत्तौ 'वृद्धाच्छः' इति छः, तस्य ईयादेशः, यास्कायनीया इति रूपम् । अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थकफिञो लुकि 'यस्येति च' इति अकारलोपे यास्कीया इति रूपमित्यर्थः । तस्यापत्यम् । तद्धिता इति प्रत्ययः, परश्व इति चाधिकृतम् । तच्छब्दः सर्वनामतया बुद्धिस्थपरामर्शित्वादुपग्वादिसर्वविशेषबोधकः, तस्य उपग्वातौवल्यादिभ्य इति । दैवमित्रि, दैवयज्ञि, श्वाफल्कि, आसुरि, नैमेषि, पौष्करसादि, वैकर्णीत्यादितौल्वल्यादिः । कात्यायनस्येति । कतस्य गोत्रापत्य कात्यः । गर्गादित्वाद्यञ् । ततो यूनि 'यञिञोश्व' इति फक् । कातीया इति । ‘आपत्यस्य च-' इति यलोपः । तस्यापत्यम् । 'तस्य' इति न स्वरूपग्रहणम्, किं १ क्वचिद् 'यूनि' इत्येव पाठः । २ ' इत्येव पूर्वेण' इति क्वचित् पाठः ।