________________
प्रकरणम् २६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ २८५
न्तादाङ्गशब्दाद् 'अणो व्यचः -' ( सू १९८० ) इति फिञो लुक् । श्राङ्गः पिता पुत्रश्च । १०८५ इञः प्राचाम् । ( २-४-६० ) गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक्स्यात् तच्चेद्गोत्रं प्राचां भवति । पन्नागारस्य अपत्यम्, 'श्रुत इज् ' ( सू १०१५ ), ' यञिञोश्च' ( सू ११०३ ) इति फक्, पन्नागारिः पिता पुत्रश्च । प्राचां किम्-दातिः पिता, दाक्षायणः पुत्रः । १०८६ न तौल्वलिभ्यः । (२-४-६१ ) तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुङ् न स्यात् । पूर्वेण प्राप्तः ।
,
युवापत्ये च पैलशब्द इत्याह- पैलः पिता पुत्रश्चेति । यूनः पिता युवा चेत्यर्थः । ‘तद्राजाच्चाणः' इति पैलादिगणसूत्रम् । तद्राजप्रत्ययात्परस्य युवप्रत्ययस्याणो लुगित्यर्थः । यञ्मगधेति । अङ्गशब्दो देशविशेषे । तस्य राजा श्रङ्गः । तस् गोत्रापत्यमप्याङ्गः । 'मगध' इत्यण् । तस्यापत्यं युवाप्याङ्ग एव । 'अणो द्यचः ' इति फिञ् तस्यानेन लुक् । इञः प्राचाम् । इञ इति पञ्चमी । प्रत्ययत्वात्तदन्तग्रहणम् । 'रायक्षत्रिय - ' इत्यतो यूनि लुगित्यनुवर्तते । इञन्तात्परस्य युवप्रत्ययस्य लुगित्यर्थः। अर्थादिञो गोत्रार्थकत्वं लभ्यते । तदाह – गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुगिति । प्राचाम् इति गोत्रविशेषणम्, न तु विकल्पार्थम्, व्याख्यानात् । तदाह - तच्चेद्गोत्रं प्राचां भवतीति । प्राग्देशीयमित्यर्थः । पन्नागारस्येति । प्राग्देशे पन्नागारो नाम कश्चित् तस्य गोत्रापत्यमित्यर्थ 'अत इञ्' इति इञि पान्नागारिः । पान्नागारेरपत्यं युवेत्यर्थे पानागारिशब्दाद् ' यञिञोश्च' इति फक्, तस्यानेन लुक् । एवं च पन्नागारस्य गोत्रापत्ये युवापत्ये च पान्नागारिरित्येव रूपमि - त्यर्थः । प्राचां किमिति । गोत्रविशेषणं किमर्थमित्यर्थः । दाक्षिः पिता, दाक्षायणः पुत्र इति । दक्षस्य गोत्रापत्यं दाक्षिः, अत इञ् । तस्यापत्यं युवा दाक्षायणः । 'यञिञोश्च' इति फक् । तस्य लुग् न भवति, दाक्षिशब्दस्य प्राग्देशीयगोत्रप्रत्ययान्तत्वाभावेन न युवप्रत्ययस्य फकः प्राग्देशीयगोत्रार्थकादिञः परत्वम् ।
"
फिञोऽनेन लुगित्यर्थः । एवं च पीलाया अपत्ये गोत्रापत्ये युवापत्ये चावैरूप्येण पैलशब्दः प्रयुज्यत इत्याह- पैलः पिता पुत्रश्चेति । पैलादिषु ये इञन्ताः शालङ्किसात्यकिऔदमेयिपैङ्गलिप्रभृतयस्तेभ्यः 'इञः प्राचाम्' इति लुकि सिद्धे अप्राचामर्थः पाठ इति ज्ञेयम् । तद्राजाच्चारणः । गणसूत्रमिदम् । तद्राजसंज्ञकात्परस्य युवप्रत्ययस्य लुगित्यर्थः । तच्चेद्गोत्रं प्राचां भवतीति । इह प्राचां ग्रहणं गोत्रविशेषणम्, न तु ‘प्राचामवृद्धात्-' इत्यादिवद्विकल्पार्थमित्यत्र व्याख्यानं शरणम् । दाक्षिः पितेत्यादि । दक्षस्यापत्यं गोत्रापत्यं च पुमान्दातिः । युवापत्यं तु दाक्षायण इति भावः । न तौल्वलिभ्यः । बहुवचननिर्देशाद्गणपाठसामर्थ्याचाद्यर्थावगतिरित्यभिप्रेत्याह