________________
२८४ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारकायनः । तस्य च्छात्रोऽपि ग्लौचुकायनः । अणो लुकि वृद्धस्वाभावाच्छो न । १०८४ पैलादिभ्यश्च । (२-४-५६) एभ्यो युवप्रत्ययस्य लुक् । 'पीलाया वा' (सू ११२१) इत्यण् । तस्माद् 'प्रणो व्यः' (सू ११८० ) इति फिञ् । तस्य लुक् ।पैलः पिता पुत्रश्च । 'तद्राजाचाणः' (ग २१) 'व्यज्मगध-' इत्यरणलुकः प्रत्ययादर्शनत्वात् प्रत्ययस्येति लभ्यत इति भावः । ननु ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिरिति कथम्, 'अत इञ्' इति इञः प्राप्तेः ? इत्यत आह-वक्ष्यमाण इति । 'प्राचामवृद्धात् फिन् बहुलम्' इत्यनेनेति शेषः । आयन्नादेशे ग्लुचुकायनिरिति रूपमिति भावः । तत इति । ग्लुचुकायनेरपत्यार्थे 'तस्यापत्यम्' इत्यणि आदिवृद्धौ 'यस्येति च' इति लोपे ग्लौचुकायन इति रूपमित्यर्थः । तस्येति । ग्लौचुकायनस्य छात्र इत्यर्थे तस्येदमित्यणि युवापल्याणो लुकि ग्लौचुकायन इत्येव रूपमित्यर्थः । ननु युवापत्याणः 'यस्येति च' इति लोपेनैव छात्राथै ग्लौचुकायन इति रूपसिद्धेस्तस्य लुग्विधिरनर्थक इत्यत आह–अणो लुकीति । छात्रार्थकछप्रवृत्तेः प्रागेव युवप्रत्ययस्याणो लुकि आदिवृद्धेर्निवृत्तौ ग्लुचुकायनिशब्दस्य वृद्धत्वाभावाच् छो न भवति । युवप्रत्ययस्य लुगभावे तु वृद्धत्वात् छः स्यात् । एतदर्थमेव युवप्रत्ययस्य लुम्विधानमित्यर्थः । स्थितश्चातुर्थिको युवप्रत्ययलुक् । तत्प्रसङ्गाद् द्वैतीयीको युवप्रत्ययलुगनुक्रम्यते । पैलादिभ्यश्च । 'ण्यक्षत्रियार्ष-' इत्यतो यूनि लुक् इत्यनुवर्तते । तदाह-एभ्यो युवप्रत्ययस्य लुगिति । अजादिप्रत्यये अविवक्षितेऽपि प्राप्त्यर्थमिदम् । पीलाया इति । पीलाया गोत्रापत्यमित्यर्थे 'स्त्रीभ्यो ढक्' इति ढकं बाधित्वा 'पीलाया वा' इत्यणित्यर्थः । तस्मादिति । पैलस्यापत्यं युवेत्यर्थे 'पैलादिभ्यश्च' इति लुक् 'अणो यचः' इति फिञ् इत्यर्थः । पीलाया गोत्रापत्यस्यापत्यं पीलाया युवापत्यमिति पर्यवस्यति । तस्येति । तस्य युवार्थकफिप्रत्ययस्य अनेन लुगित्यर्थः । पीलाया गोत्रापत्ये इत्यर्थस्तदाह-युवप्रत्ययस्येति । वक्ष्यमाण इति । 'प्राचामवृद्धात्फिन्बहुलम्' इति वक्ष्यमाणः। अजादौ किम् , ग्लौचुकायनरूप्यम् । प्राग्दीव्यतीये किम् , ग्लौचुकायनीयम् । 'तस्मै हितम्' इति छः । इह 'द्विगोर्चुगनपत्येऽचि' 'यूनि गोत्रे न' इत्येव सूत्रयितव्यम् । तथा च 'लुगलुग्ग्रहणं शक्यमकर्तुम्' इति मनोरमायां स्थितम् । तत्र 'फक्फिो :-' इति सूत्रे 'यूनि' इत्यस्य मण्डूकप्लुतिराश्रयणीयेति क्लेशोऽयं लाघवानुरोधेन सोढव्य इति भावः। पैलादिभ्यश्च । 'रायक्षत्रियार्षइत्यतो 'यूनि लुक्' इति वर्तते तदाह-युवप्रत्ययस्य लुगिति । पीलाया वेत्यादि । 'अपत्येऽणि विहिते गोत्रापत्येऽप्यणेव' ‘एको गोत्रे' इति वक्ष्यमाणत्वात्। ततोऽणन्तात्पैलशब्दादपत्येऽपि विधीयमानः फिञ् युवापत्ये पर्यवस्यति। तस्य च