________________
प्रकरणम् २८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३८६ तद्विषयार्थवाचिकन्थाशब्दाद् वुक्स्यात् । 'यथा हि जातं हिमवत्सु कान्थकम् । १३२४ अव्ययात्त्यप् । (४-२-१०४) 'अमेहक्कतसित्रेभ्य एव' (वा २७७६) 'श्रमान्तिकसहार्थयोः' । अमात्यः । इहत्यः । कत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम्-उपरिष्टाद्भवः औपरिष्टः । 'अव्ययानां भमात्रे टिलोप.' (वा ४१८७) । अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न-श्रारातीयः । शाश्वतीयः । 'त्यन्नेधुंव इति वक्तव्यम्' (वा २७८०)। नित्यः। 'निसो गते' (वा २७८१)। १३२५ ह्रखात्तादौ तद्धिते । (८-३-१०१) हस्वादिणः परस्य सस्य षः स्यात्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चण्डालादिः । 'अरण्याण्णः' (वा २७८२) श्रारण्याः सुमनसः । 'दूरादेत्यः' (वा २७८३) लुप् । तथा च वर्गुसमीपदेशो वर्णः, तस्मिन् या कन्था तद्वाचकात् वुक्प्रत्यय इति यावत् । अव्ययात्त्यप् । अमेहेति । अमा, इह, क, तसि, त्र-एभ्य एव अव्ययेभ्यः त्यप्प्रत्यय इति परिगणनवार्तिकमिदम् । अमात्य इति । समीपे सह वा जात इत्यर्थः। औपरिष्ट इति । उपरिष्टादित्यव्ययस्य परिगणितेष्वनन्तर्भावाद् न त्यप् । अणि औपरिष्ट इति रूपमित्यर्थः । कथमिह टिलोप इत्यत पाहअव्ययानामिति । वार्तिकमिदम् । भमात्र इति । कात्स्न्ये मात्रशब्दः । कृत्स्नस्य भस्याव्ययस्य टेर्लोपः । 'नस्तद्धिते' इत्याद्युपाधिर्नापेक्षित इत्यर्थः । नन्वेवं सति श्रारादित्यव्ययात् छस्य ईयादेशे टिलोपे आरीय इति स्यादित्यत आह-अनित्योऽयमिति । त्यनेरिति । नि इत्यव्ययात् त्यप् स्याद् ध्रवे गम्ये इत्यर्थः । 'नियतं भवं नित्यम्' इति भाष्यम् । निसो गते इति । निस् इत्यव्ययात् त्यब् वक्तव्यो गते गम्ये इत्यर्थः । निस् त्य इति स्थिते सकारस्य पदान्तत्वादादेशप्रत्ययावयवत्वाभावाच्च षत्वे अप्राप्ते । हवात्तादो। इएकोरित्यत इराग्रहणमनुवर्तते । 'सहेः साडः सः' इत्यतः स इति षष्ठयन्तमनुवर्तते । 'अपदान्तस्य मूर्धन्यः' इत्यतः 'मूर्द्धन्यः' इति च, तदाह-हस्वादिण इति । निष्टय इति । त्यपि सस्य षत्वे तकारस्य ष्टुत्वेन टः । अरण्यारण इति । वक्तव्य इति शेषः ।
आरण्याः सुमनस इति । 'स्त्रियः सुमनसः पुष्पम्' इत्यमरः। अरण्ये भवा इत्यर्थे णप्रत्यये टापि प्रारण्या इति रूपम् । अणि तु डीप् स्यादिति भावः । 'जनपदे लुप्' इति लुप् । अमात्य इति। अमाशब्दः समीपवाची स्वरादिः । अमा समीपे भव इत्यर्थः । ह्रस्वात्तादी। पदान्तत्वात्षत्वस्याप्राप्तावयमारम्भः। श्रादिग्रहणं तु व्यर्थं 'यस्मिन्विधि-' इत्येव सिद्धेः । ह्रस्वात्किम्, गीस्तराम् । धूस्तराम् । तादौ किम् , सर्पिःसाद्भवति । तद्धिते किम् , सर्पिस्तरति । तिङन्तस्य प्रतिषेधो