________________
३६०] सिद्धान्तकौमुदी। [नद्धितेषु शैषिकदूरेत्यः । 'उत्तरादाह' (वा २७४४ )। श्रौत्तराहः । १३२६ ऐषमोह्यःश्वसोऽन्यतरस्याम् । (४-२-१०५) एभ्यस्त्यब्बा । पक्षे वयमाणो ट्यध्यलो। ऐषमस्त्यम् , ऐषमस्तनम् । ह्यस्त्यम् , ह्यस्तनम् । श्वस्स्यम्, श्वस्तनम् । पक्षे शौव. स्तिकं वक्ष्यते । १३२७ तीररूपोत्तरपदादयौ । (४-२-१०६) यथासंख्येन । काकतीरम् । पाल्वलतीरम् । शैवरूप्यम् । तीररूपान्ताद् इति नोक्तम् । बहुचपूर्वान्मा भूत् । बाहुरूपम् । १३२८ दिक्पूर्वपदादसंज्ञायां दूरादेत्य इति । वक्तव्य इति शेषः । दूरेत्य इति । दूरादागतः, दूर भव इति वार्थः । दूरादित्यव्ययाद् एत्यप्रत्यये 'अव्ययानां भमात्रे-' इति टिलोपः। उत्तरादाहजिति । वाच्य इति शेषः । औत्तराह इति । उत्तरस्मादागा उत्तरस्मिन् भव इति वार्थः । औत्तर इति त्वसाधु । ऐषमोह्यः । एभ्य इति। ऐषमस् , ह्यस् , श्वस् एतेभ्य इत्यर्थः । वक्ष्यमाणाविति । 'सायञ्चिरंप्राज्ञेप्रगेऽव्ययेभ्यष्टयटयली तुट् च' इत्यनेनेति शेषः । ऐषमस्त्यमिति । ऐषमस् इत्यव्ययं वर्तमाने संवत्सरे वर्तते, तत्र भवमित्यर्थः । 'परुत्परायैषमोऽब्दे पूर्व पूर्वतरे यांते ।' इत्यमरः । ऐषमस्तनमिति । ट्यट्यलौ वा । टावितो, य्वोरनादेशः, तस्य तुट , ट इत् , उकार उच्चारणार्थः, टित्त्वादाद्यवयवः । ह्यस्त्यं-शस्तनमिति । ह्यस् इत्यव्ययं गतेऽह्नि तत्र भवमित्यर्थः । श्वस्त्यम् ,श्वस्तनमिति । श्वस् इत्यव्ययमनागतेऽह्नि। तत्र भवमित्यर्थः । 'ह्यो गतेऽनागतेऽह्नि श्वः' इत्यमरः । पक्ष इति । 'श्वसस्तुट च' इति ठनि तस्य इकादेशे तुडागमे 'द्वारादीनां च' इत्यैजागमे शौवस्तिकमित्यपि वक्ष्यमाणं रूपमित्यर्थः । तीररूप । तीरोत्तरपदाद् रूपोत्तरपदाच्च क्रमादयश्चेत्यर्थः। काकतीरमिति । कैकतीरे भवमित्यर्थः । पाल्वलतीरमिते । पल्वलतीरे भवमित्यर्थः । शैवरूप्यमिति । शिवरूपे भवमित्यर्थः । रूप्योत्तर पदेति कचित्पाठः। तथा सति ज्यप्रत्यये 'यस्येति च' इत्यकार लोपे द्वियकारं रूपम् । बाहुरूपमिति । 'विभाषा सुपो बहुच पुरस्तात्तु' इति बहुपूर्वस्य रूपान्तत्वेऽपि तहत्तरपदकत्वाभावान व्य इति भावः । दिक्पूर्वपदात् । पञ्चम्यर्थे सप्तमी । असंज्ञाभूताद् दिवपूर्वपदकाद् वाच्यः । भिन्युस्तराम् । दूरेत्य इति । दूरादागत इत्यादि र्थः । औत्तराह इति । इहायुदात्तत्वं स्त्रियां टाप् च बोध्यः । यदा तु 'उत्तराच्च' इत्याहिप्रत्यये ततोऽण क्रियते 'अमेह-' इति परिगणनेन त्यपोऽभावात् तदा औत्तराहशब्दोऽन्तोदात्तः, स्त्रियां ङीप् च विशेषः । वक्ष्यमाणाविति । 'सायंचिरम्-' इत्यादिनति शेषः । वक्ष्यत इति । 'श्वसस्तुट् च' इत्यत्र । दिक्पूर्व । 'असंज्ञायाम' इत्यत्र सौत्रत्वा
१ 'काकतीरे' इति क,