________________
प्रकरणम् २८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३६१
ञः । (४-२-१०७ ) श्रणोऽपवादः । पौर्वशालः । श्रसंज्ञायां किम्-संज्ञाभूतायाः प्रकृतेर्मा भूत् । पूर्वेषुकामशम्यां भवः पूर्वेषुकामशमः । 'प्राचां ग्रामनगराणाम्' (सू १४००) इत्युत्तरपदवृद्धिः । १३२६ मद्रेभ्योऽञ् । (४-२ - १०८ ) ‘दिक्पूर्वपदात्' इत्येव । ‘दिशोऽमद्राणाम् ' ( १३६६ ) इति मद्रपर्युदासादादिवृद्धिः । पौर्वमद्रः । श्रपरमद्रः । १३३० उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् । (४-२-१०६ ) अम् स्यात् । शैवपुरम् । १३३९ प्रस्थोत्तरपदपलद्यादिकोपधादण् । ( ४-२ - ११० ) माहिकिप्रस्थः । पालदः । नैनीनकः । १३३२ कण्वादिभ्यो गोत्रे । ( ४-२ - १११ ) एभ्यो गोत्रप्रत्ययाञः स्यादित्यर्थः । पौर्वशाल इति । पूर्वस्यां शालायां भव इत्यर्थे ' तद्धितार्थ-' इति समासाद् ञः । मद्रेभ्योऽञ् । इत्येवेति । दिक्पूर्वाद् मद्रशब्दादनित्यर्थः । पर्युदासादिति । उत्तरपदवृद्धेः पर्युदासे सति आदिवृद्धिरित्यर्थः । बहुवचनाज्जनपदवाचिन एव ग्रहणम् । पौर्वमद्र इति । पूर्वेषु मद्रेषु भव इत्यर्थः । उदीच्यग्रामाच्च । शैवपुरमिति । उत्तरदेशे शिवपुरं नाम ग्रामविशेषः । तत्र भवमित्यर्थः । समासस्येत्यन्तोदात्तः शिवपुर शब्दः । 'बह्वचः ' किम् ? ध्वजी ( ङीषन्तो) नाम उत्तरदेशे ग्रामविशेषः। तत्र भवः ध्वाजः । ' अन्तोदात्तात् किम् । शार्करीधानम् । कृदुत्तरपदप्रकृतिखरेण लित्स्वरस्यैवावस्थानाद् मध्योदात्तोऽयम् । प्रस्थोत्तरपद । प्रस्थोत्तरपदात् पलद्यादिभ्यः कोपधाच्च णित्यर्थः । पलदिः श्रादिर्येषामिति विग्रहः । उदीच्यग्रामलक्षणस्य पञोऽपवादः । माहिकिप्रस्थ इति । महिकिप्रस्थान ग्रामे भव इत्यर्थः । पालद इति । पलदिनानि ग्रामे भव इत्यर्थः । नैलीनक त्पञ्चम्यर्थे सप्तमीत्याशयेनाह – संज्ञाभूताया इति । मद्रेभ्योऽञ् । बहुवचननिर्देशाज्जनपदवाची गृह्यते, न तु भद्रपर्यायः । दिशोऽमद्राणामिति । 'दिग्वाचकादुत्तरपदस्य जनपदवाचिनो मद्रभिन्नस्याचामादेर्वृद्धिः स्याद् ञिति णिति किति च तद्धिते' इति सूत्रार्थः । पौर्वमद्र इति । मद्वैकदेशे मद्रशब्दस्य वृत्तौ दिक्शब्देन सामानाधिकरण्यात् ‘तद्धितार्थ - ' इति समासः । उदीच्य | दिग्ग्रहणं निवृत्तम् । उदीच्यग्रामात्किम्, माथुरः । बह्वचः किम्, ध्वाजः । पिप्पल्यादिङीषन्तो ध्वजीशब्दः । अन्तोदात्तात्किम्, शार्कराधानम्, शर्कराधानशब्दे धाशब्दाकार उदात्तः 1 कृदुत्तरपदप्रकृतिस्वरेण लित्स्वरस्यावस्थानात् । शैवपुरमिति । 'प्रस्थपुरवहान्ताच्च' इति वुञ् न भवति, 'वृद्धात्' इति तत्रानुवृत्तेः । प्रस्थोत्तर । उदीच्यग्रामलक्षणस्यानोऽपवादः । पालद इति । पलदीति ईकारान्त इत्येके । नान्त इत्यन्ये । नलोपे १ ‘ध्वजी' इति क, २ ' ध्वाजः' इति क. ३ 'शार्कराधानम्' इति क. ।