________________
३६२ ] सिद्धान्तकौमुदी। तद्धितेषु शैषिकन्तेभ्योऽण् स्यात् । कण्वो गर्गादिः। काव्यस्य छात्राः काण्वाः। १३३३ इञश्च । (४-२-११२) गोत्रे य इञ् तदन्तादण् स्यात् । दाताः । गोत्रे किम्-सौतङ्गमेरिदं सौतङ्गमीयम्। गोत्रमिह शास्त्रीयम् , न तु लौकिकम् । तेन्ह न-पाणिनीयम् । १३३४ न यचः प्राच्यभरतेषु । (४-२-११३) 'इजश्व' (सू १३३३ ) इत्यणोऽपवादः । प्रौष्ठीयाः । काशीयाः । भरतानां प्राच्यलेऽपि पृथगुपादानम् अन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य लिङ्गम् । १३३५ वृद्धिर्यस्याचामादिइति । निलीनकनाम्नि ग्रामे भव इत्यर्थः । करावादिभ्यो गोत्रे । काराव्यस्येति । करावस्य गोत्रापत्यं काराव्यः । गर्गादियञ् । काराव्यस्य छात्रा इत्यर्थ अनेन छापवादः अण् । 'यस्येति च' इत्यकारलोपः, 'अापत्यस्य च-' इति यकारलोपः, कारवा इति रूपम् । इञश्च । दाक्षा इति । दक्षस्य गोत्रापत्यं दाक्षिः । 'अत इञ् ।' दाक्षेः छात्रा इति विग्रहः । सौतङ्गमेरिदमिति । सुतङ्गमस्य निवासः सौतङ्गमिः । 'सुतङ्गमादिभ्य इञ्' । सौतङ्गमेरिदमित्यर्थे वृद्धात् छः, न त्वण, इझो त्रार्थकत्वाभावात्। गोत्रमिह शास्त्रीयमिति । अपत्याधिकारादन्यत्र यद्यपि ले किकमेव गोत्रमिति सिद्धान्तः । तथापि इह सूत्रद्वयेऽपि शास्त्रीयमेव गोत्रं गृह्यते, 'यूनि लुक्' इति सूत्रभाष्ये तथोक्तत्वादिति भावः । पाणिनीयमिति । पणिनो गेत्रापत्यं पाणिनः । तस्यापत्यं युवा पाणिनिः । तस्येदं पाणिनीयम् । वृद्धात् छः । अरा तु न, पाणिनिशब्दस्य युवप्रत्ययान्तत्वादिति भावः । न द्वयचः । प्राच्येषु भरतेषु च गोत्रेषु विद्यमानादिअन्ताद् यचः अण् न भवतीत्यर्थः। इञश्चेत्यणोऽपवादः । प्रतिषेध इत्यर्थः । प्रौष्टीया इति । प्रौष्ठस्य गोत्रापत्यं प्रौष्ठिः, तस्य छात्रा इत्यर्थः । काशीया इति । काशस्य गोत्रापत्यं काशिः, तस्य छात्रा इत्यर्थः । अणो निषेधे वृद्धात् छः। सति यणादेशात्संहिता तुल्यैव । वाहीकशब्दः कोपधोऽपि पलद्य दिषु पठ्यते परं छं बाधितुम् । अन्यथा अणं बाधित्वा परत्वाच्छ एव स्यात्कोप प्रयुक्तोऽण अवृद्ध सावकाश इति । यकृल्लोमनि भवो याकृल्लोमः । 'अन्' इति प्रकृतिभावस्तु न, गणेऽस्मिन्नलोपनिपातनादिति हरदत्तादयः । सौतंगमेरिति । सुतंगमादिभ्यश्चातुरर्थिक इञ् । शास्त्रीयमिति । ननु 'अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते' इति चेत् । अत्राहुः-'पूर्वसूत्रे गोत्रग्रहणेन पौत्रप्रति गोत्रं गृह्यते, करवादिभ्यो गोत्रे यः प्रत्ययो विहितस्तदन्तेभ्यः-' इति गोत्रप्रत्यर नुवादेन तत्राण्विधानात् । कण्वादयश्च गर्गाद्यन्तर्गताः । 'गर्गादिभ्यो यज्' इ यत्र तु 'गोत्रे कुजा. दिभ्यः-' इत्यतो गोत्र इत्यनुवर्तते, न तु शास्त्रीयगोत्रमेव गृह्यते । पत्याधिकारस्थत्वात् तदेव हि 'इअश्च' इति सूत्रेऽनुवर्तत इति । न द्यचः । अपवाद इति । प्रतिषेध