________________
प्रकरणम् २८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६३ स्तवृद्धम् । (१-१-७३) यस्य समुदायस्थाचा मध्ये प्रादिवृद्धिस्तद्वृद्धसंज्ञं स्यात् । १३३६ त्यदादीनि च । (१-१-७४) वृद्धसंज्ञानि स्युः । १३३७ वृद्धाच्छः । (४-२-११४) शालीयः । मालीयः । तदीयः । १३३८ एड् प्राचां देशे ।(१-१-७५) एङ् यस्याचामादिस्तवृद्धसंज्ञं वा स्यादेशाभिधाने । एणीपचनीयः । गोनीयः । भोजकटीयः । पक्षेऽणि ऐणी. पचनः, गौनर्दः, भौजकटः । एङ् किम्-श्राहिच्छस्त्रः । कान्यकुब्जः । 'वा नामधेयस्य वृद्धसंज्ञा वक्तव्या' ( वा ५७६ )। देवदत्तः, देवदत्तीयः । १३३६ भवतष्ठक्छसौ। (४-२-११५) वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् , भवदीयः । वृद्धाद् इत्यनुवृत्तः शत्रन्तादणेव । भावतः । १३४० काश्यादिभ्यष्ठचिठौ । (४-२-११६) इकार उच्चारणार्थः । काशिकी, काशिका । लिङ्गमिति । तेन प्रौद्दालकिः पिता, औद्दालकायनः पुत्र इत्यत्र 'इञः प्राचाम्' इति भरतेभ्यो लुङ् न भवति । वृद्धिय॑स्य । अचामिति बहुत्वमनेकत्वोपलक्षणम् । तेन शालाशब्दस्यापि वृद्धत्वं सिध्यति । व्यपदेशिवत्त्वेन ज्ञाशब्दस्यापि वृद्धत्वम् । त्यदादीनि च । शेषपूरणेन सूत्रं व्याचष्टे-वृद्धसंज्ञानि स्युरिति । आदेरचो वृद्धसंज्ञकत्वाभावादारम्भः । वृद्धाच्छः । वृद्धसंज्ञकात् छः स्याद् जातादिष्वर्थेषु । अणोऽपवादः । शालीय इति । शालायां जात इत्यादिरर्थः। एवं तदीयः । एङ् प्राचां देश । देशविशेषनाम्नश्चेदेङादिरव वृद्धसंज्ञक इति नियमार्थमिदम् । वा नामधेयस्येति । रूढशब्दत्वमिह नामत्वम् , न त्वाधुनिकसंकेतितत्वमेव, तेन घटीयमित्यादि सिद्धम् । भवतष्ठक्छसौ । भावक इति। 'इसुसुक्तान्तात्कः' । ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधात्कथं जश्त्वमित्यत आह-जश्त्वमिति । 'सिति च' इति पदत्वेन भत्वस्य बाधादिति भावः । ननु भावत इति कथमरप्रत्ययः, 'त्यदादीनि च' इति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह-वृद्धादित्यनुवृत्तेः शत्रन्तादणेवेति । त्यदादिषु 'भातेडवतुः' इति डवत्वन्तस्येव पाठादिति भावः । काश्यादिभ्यष्ठमिठौ। ठञ् बिठ इति प्रत्ययौ स्तः । मिठप्रत्यये जि इति समुदायस्य 'श्रादिर्बिटुडवः' इति इत्संज्ञायां प्रयोजनाभावाद् अकार एव इत् , तस्य जित्स्वरः प्रयोजनम् । ठञ एव विधौ तु ङीप् स्यात् , टाब् न स्यात् । नन्वेवं सति इठप्रत्यये ठस्य इकादेशो न स्यात् । इत्यर्थः । भरतानामग्रहणस्येति । तेन 'इञः प्राचाम्' इति भरतेभ्यो युवप्रत्ययस्य लुङ् न भवति । औद्दालकिः पिता, औद्दालकायनः पुत्रः, इति 'आदिगोपुच्छ-' इति सूत्रे कैयट भवतः । छादिरय प्रत्ययो न तु शादिः । पदसंज्ञार्थ सित्करणा