________________
३८८] सिद्धान्तकौमुदी। तद्धितेषु शैषिकगौः। राकवायणः । 'अमनुष्ये' इति किम्-राङ्कको मनुष्यः । १३२१ धुप्रागपागुदक्प्रतीचो यत् । (४-२-१०१ ) दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् । १३२२ कन्थायाष्ठक् । (४-२-१०२) कान्थिकः । १३२३ वर्णों वुक् । (४-२-१०३) वणुपमीपदेशो वणुः । रकोरण स्यात् चात् फक् । राङ्कवो गौरिति । रकर्नाम देशविशेषः, तत्र जातादिरित्यर्थः । राङ्कवको मनुष्य इति । अत्र मनुष्यत्वाच फगणौ । किन्तु 'मनुष्यतत्स्थयोः-' इति वक्ष्यमाणो वुञ् । अकादशः । राङ्कवो मनुष्य इति त्वपपाठः। धुप्रागपाक् । दिव् , प्राञ्च् , अपाञ्च् , उदञ्च् , प्रत्यञ्च् एभ्यो यत्स्यादित्यर्थः । सूत्रे 'दिव उत्' इत्युत्त्वेन निर्देशः । दिव्यमिति । दिवि जात दीत्यर्थः । प्राच्य. मिति । प्राचि प्रदेशे जातादीत्यर्थः । तद्धितोत्पत्तौ सुब्लुकि प्राञ्च् य इति स्थिते 'अनिदिताम्-' इति नलोपे 'अचः' इत्यकारलोपे 'चौ' इति दीर्घ प्राच्यमिति रूपम् । अपाच्यमिति । इदमपि पूर्ववत् । उदीच्यमिति । अत्र 'उद ईत्' इति ईत्त्वं विशेषः । प्रतीच्यमिति । प्राच्यवद्रूपम् । कन्थायाष्टक् । तिर्यक्स्यूतबहुवस्त्रखण्डसमूहः कन्था । देशविशेष इत्यन्ये । वौँ वुक । वर्गुसमीपेति । वर्गुर्नाम सिन्धुनदः, तस्यादूरभव इत्यर्थे सुवास्त्वादित्वादणो “जनपदे लुप्' इति विधानार्थ इति कैयटः । अतएवाह-रावको मनुष्य इति । क्वचित्तु राव इति पठ्यते, स तु लेखकप्रमादः । स्यादेतत्-अमनुष्यग्रहणमिह व्यर्थम् । अपवादेन वुना तत्र फगणोर्बाधेनामनुष्य एव पर्यवसानात् । अण्ग्रहणम पे व्यर्थमेव, कच्छादित्वादेव तत्सिद्धेः । अत्राह काशिकाकृत्-नायं प्रसज्यप्रतिषेधः किं तु पर्युदासः, तेन मनुष्यभिन्ने प्राणिन्येव फग्विधीयत इति, राङ्कवः कम्बत इत्यत्र न फक् । विशेषविहितेन फका अणो बाधा मा भूदित्यण्ग्रहणं च कियत इति । भाष्ये तु अप्राणिन्यपि ष्फकमङ्गीकृत्येदं द्वयपि प्रत्याख्यातम् । थुप्रागपा। दिव्यमिति । सूत्रं 'दिव उत्' इत्युत्वेन निर्देश इति भावः । अपाची दक्षिणा दिक् । द्वितीयो वर्णः पकारो, न तु दन्त्योष्ठयः, 'यदिन्द्र प्रागपागुदक्' इत्यादौ तथा दर्शनादिति स्थितं मनोरमायाम् । केचित्तु 'प्राच्यवाचीप्रतीच्यस्ताः' इत्यमरकोशे अवाचीति दन्त्योष्ठयपाठं क्वाचित्कं पुरस्कृत्य सूत्रेऽपि 'अवाक्' इति पठित्वा अवाच्यमित्युदाहरन्ति । 'प्रागपाक्' इति वेदे तु व्यत्ययेन वकारस्य पकार इति तेषामाशयः। प्रागादयोऽस्तात्यन्ता अव्ययाः, तद्भिन्नास्त्वनव्ययाः, उभयेषामपीह ग्रहणमविशेषात् । कथं तर्हि 'संस्काराः प्राक्तना इव' इति । अत्राहुः-कालवाचिनः प्राक्शब्दायतं बाधित्व' परत्वात् ट्यट्यलो बोध्याविति । वौँ वुक् । वर्गुरिति । 'अदरभवश्च' इत्यर्थे सुवास्त्वादित्वादणि