________________
प्रकरणम् २८ ] बालमनोरमा तत्त्वबोधिनीसहिता। [३८७ १३१६ कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु । (४-२-६६) कौलेयकः श्वा । कौलोऽन्यः । कौक्षेयकोऽसिः।कौक्षोऽन्यः । प्रैवेयकोऽलङ्कारः । प्रैवोऽन्यः । १३१७ नद्यादिभ्यो ढक । (४-२-६७) नादेयम् । माहेयम् । वाराणसेयम् । १३१८ दक्षिणापश्चात्पुरसस्त्यक् । (४-२-६८) 'दक्षिणा' इत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः । १३१६ कापिश्याफक् । (४-२-६९) कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा । १३२० रङ्कोरमनुष्येऽएच । (४-२-१००) चारष्फक् । राङ्कवो कोः कदादेशः । कात्त्रेयक इति । ढकञ् , ढकारस्य एयादेशः 'लोपो व्योः-' इति यलोपः । अनुवृत्तेरिति । स्वरितत्वादिति भावः। तथा च ग्रामशब्दाद् ढकअपि लभ्यत इत्यर्थः । कुलकुक्षि । कुलाच्छनि, कुक्षेः असौ, ग्रीवाया अलंकारे ढकमित्यर्थः । कौलेयकः श्वेति । कुले जातादिरिति विग्रहः। कौक्षयकोs. सिरिति । कुक्षौ कोशे भवः खड्ग इत्यर्थः । अवेयक इति । ग्रीवासु भव इति विग्रहः । नद्यादिभ्यो ढक् । माहेयमिति । मही भूमिः, तस्यां जातादीत्यर्थः । वाराणसेयमिति । वाराणस्यां जातादीत्यर्थः । दक्षिणापश्चात् । अाजन्तमव्ययमिति । अव्ययसाहचर्यादाजन्तं गृह्यत इति भावः । दक्षिया, पश्चात् , पुरस् एभ्योऽव्ययेभ्यो जाताद्यर्थेषु त्यक्प्रत्ययः स्यादित्यर्थः । कापिश्याष्ष्फक् । कापिश्याः ष्फक इति छेदः। कापिशीशब्दात् फक् स्यादित्यर्थः । कापिशी नाम देशविशेषः । कापिशायनी द्राक्षेति । षित्त्वाद् ङीष् । रङ्कोरमनुष्येऽण च । ख्येयम् । 'कुल्याया यलोपश्च' इति गणसूत्रम् । कुल्यायां जातः कौलेयकः । कत्त्रि, उम्भि, कुण्डिन, माहिष्मतीत्यादि । दक्षिणापश्चात् । अव्ययमिति । साहचर्यादिति भावः । एवं च दाक्षिणात्य इत्यत्र 'सर्वनानो वृत्तिमात्रे-' इति पुंवद्भावाशङ्कव नास्तीति बोध्यम् । पाश्चात्त्य इति । कथं तर्हि 'पश्चात्तनैः कश्चन नुद्यमानः' इति न च दिग्देशवाचिनि पश्चाच्छब्दे सावकाशं त्यकं कालवाचकात् ट्यव्यलौ बाधेते परत्वादिति वाच्यम् , 'अप्रादिपश्चात्-' इति डिमचा टयव्यलोबर्बाधस्य दुर्वारत्वात् । सत्यम् , पश्चात्तन्वन्ति पश्चात्तना इति कथंचित्समाधेयम् । कापिश्याः ष्फक् । कापिशीशब्दात्रफक् स्यात् । षित्त्वान्ङीष् ; तदाह-कापिशायनीति । रङ्कोरमनुष्ये । रङ्कवो जनपदः, ततः 'प्राग्दीव्यतोऽण्' इत्यण् प्राप्तः । तद्बाधकत्वेन 'अद्धादपि-' इति वुञ् प्राप्तः. तमपि बाधित्वा 'आर्देशे' इति ढञ् प्राप्तः, तस्य तु 'कोपधादण' बाधकः, ततोऽपि परत्वात्कृच्छ्राद्यणि प्राप्तेऽनेन फगणी विधीयते । कोपधत्वादेवाणि सिद्धे कच्छादिषु रङ्कशब्दस्य पाठो मनुष्यतत्स्थयोधुन्