SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३८६ ] सिद्धान्तकौमुदी। [तद्धितेषु शैषिकराष्ट्रियः । अवारपारीणः 'अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्' (वा २७७१-२७७२) । अवारीणः । पारीणः । पारावारीणः । इह प्रकृतिविशेषाद्धादयष्ठ्यव्यलन्ताः प्रत्यया उच्यन्ते, तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते । १३१४ ग्रामाद्यखौ । (४-२-६४) ग्राम्यः, प्रामीणः । १३१५ कल्यादिभ्यो ढकञ् । (४-२-६५ ) कुत्सितास्त्रयः कस्त्रयः । तत्र जातादिः कास्त्रेयकः । नागरेयकः । 'ग्रामात्' इत्यनुवृत्तेामेयकः । त्यर्थः । राष्ट्रिय इति । राष्ट्रे जातो भव इत्यादिरों यथायोगं बोध्यः । घस्य इयः । अवारपारीण इति । खस्य ईनादेशः, णत्वम् । अवारपाराद्विगृही. तादपीति । अवारशब्दात्पारशब्दाच्च पृथग्भूतादपि खो वक्तव्य इत्यर्थः । विपरीताच्चेति । पारावारशब्दादपीत्यर्थः । ननु राष्ट्रावारपारेत्यारभ्य 'विभाषा पूर्वाह्णापराह्णाभ्याम्' इत्यन्तैः सूत्रै राष्ट्रादिशब्देभ्यः प्रकृतिभ्यः शेषेऽर्थे प्रत्यया विहिताः । तस्यापत्यमित्यादिवदर्थविशेषास्तु न निर्दिश्यन्ते । यत्किश्चिद्विभक्त्यन्तेभ्यो राष्ट्रादिप्रकृतिविशेषेभ्यो घादयष्ट्यट्यलन्ताः प्रत्ययाः स्युः, 'समर्थानां प्रथमाद्वा' इत्यस्यानुपस्थित्या प्रथमोच्चारितविभक्तिविशेषानुपस्थितेः। किंच 'तत्र जातः' इत्यादिसूत्रेषूत्तरेषु अर्थविशेषा एव निर्दिष्टाः। तत्र प्रथमोचारितसप्तम्यन्तादित्तद्विभक्त्यन्तेभ्यः सर्वेभ्यः साधारणा अणादय एव स्युः। तत्राह-इह प्रकृतीत्यादिना । राष्ट्रावारेत्यादिसूत्राणां प्रकृतिविशेषेभ्यः केवलप्रत्ययविधीनां अर्थविशेषविभक्तिविशेषाका ङायां 'तत्र जातः' इत्यादिसूत्राणां च केवलमर्थविशेषनिर्देशपराणां 'समर्थानाम्-' इति सूत्रलब्धतत्तद्विभक्तिकप्रकृतिविशेषाणां विधेयप्रत्ययविशेषाका डायां परस्परमेकवाक्यत्वे सति तत्र जात इत्याद्यर्थेषु प्रथमोचारिततत्तद्विभक्त्यन्तेभ्यो राष्ट्रदिशब्देभ्यो घादयष्ट्यव्यलन्ताः प्रत्ययाः स्युरिति लभ्यत इति भावः । राष्ट्रद्यन्याभ्यस्तु प्रकृतिभ्यो जाताद्यर्थेषु अणादयः साधारणा भवन्त्येव । ग्रामाद्यखी । ग्राम्य इति । यप्रत्यये 'यस्येति च' इति लोपः। ग्रामीण इति । खञ ईनादेशः, णत्वम् । कल्यादिभ्यो ढकञ् । कत्त्रय इति । 'कुगतिप्रादयः' इति कुशब्दस्य समासः । 'त्रौ च' इति दोषतादवस्थ्यात् । 'आर्द्रकादिभ्यो यदि छः स्यात्तर्हि चतुरामव' इति नियमस्यापि सम्भवाच्च । एवं स्थिते चाक्षुषमित्यादिषु गृह्यमाणत्वादिप्रकारकबोधनाय विधायऋत्वमपि तस्य सुवचमिति दिक् । विगृहीतादपीत्यादि । वचनमेवेदम् , सूत्रे यथासंख्यप्रवृत्त्यर्थं विशिष्टोच्चारणात् । कुत्सितात्रय इति । इह बहुव्रीहिरपि सुवचः । इहैव निपातनात्कोः कद्भावः । 'कद्भावे त्रावुपसंख्यानम्' इति तु प्रत्या
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy