________________
प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३८५ रक्षः । शेषे' इति लक्षणं चाधिकारश्च । 'तस्य विकारः' इत्यतः प्राक्छेषाधिकारः। १३१३ राष्ट्रावारपाराद्धखौ । (४-२-६३) प्राभ्यां क्रमाद्धखौ स्तः शेषे । लक्षणमिति । प्रदर्शितेषु ग्रहणाद्यर्थेषु उत्तरसूत्रैरनुपात्तेषु अणादिविधायकमित्यर्थः । अधिकारत्वे तु उत्तरसूत्रेष्वेवानुवृत्तिलाभादिदं न सिध्यदिति भावः । अधिकारश्चेति । उत्तरसूत्रेष्वनुवृत्त्यर्थश्चेत्यर्थः, स्वरितत्वादिति भावः । अधि. कारस्योत्तरावधिमाह-तस्य विकार इत्यतः प्रागिति । नच उत्तरसूत्रेषु निर्दिष्टानामर्थविशेषाणाम् अपत्यादिचतुरर्थ्यन्तादन्यत्वस्य सिद्धत्वात् शेषाधिकारो व्यर्थ इति वाच्यम् , 'तस्येदम्' इत्यादावपत्यादिचतुरर्थ्यन्तार्थानां ग्रहणाभावाय तदावश्यकत्वात् । न च प्रदर्शितेषु ग्रहणाद्यर्थेषु 'तस्येदम्' इत्येव अणादिसिद्धेः शेष इत्यस्य विधित्वं नाश्रयणीयमिति वाच्यम् , 'शैषिकान्मतुब यात्-' इत्यादी प्रदर्शितग्रहणाद्यर्थकानामपि ग्रहणलाभाय तदावश्यकत्वात् । इदंत्वेन भासमानमपत्याद्यपि न शेषः, 'इदंविशेषा ह्येते अपत्यं समूहो विकारो निवासः' इति भाष्यात् । प्रपञ्चितं चैतत् 'तस्यापत्यम्' इत्यत्र 'तस्येदमित्यपत्येऽपि' इत्यादिश्लोकवार्तिकव्याख्यावसरे। राष्ट्रावारपाराद्धखौ । आभ्यामिति । राष्ट्रशब्दादवारपारशब्दाचे.
शेषे । लक्षणं चेति । ग्रहणक्षुण्णादिष्वर्थेषूत्तरसूत्रानुपात्तेष्वेषु अणो विधायकमित्यर्थः । ननु लक्षणं तावद्यर्थम् , 'तस्येदम्' इत्यनेन चाक्षुषादीनाम् , 'संस्कृतं भक्षाः' इत्यनेन दार्षदादीनां सिद्धेः । तथा अधिकारोऽपि व्यर्थः । तथाहि अधिकारस्यापत्यादिचतुरर्थीपर्यन्तेष्वर्थेषु घादीनां टयट्यलन्तानां निवृत्तिः, जाताद्यर्थसाकल्यं वा प्रयोजनम् । तत्र निवृत्तिस्तावन्न प्रयोजनम् । आर्द्रकशालादीनामुत्करादिपाठेन 'इतः प्राचीनेष्वर्थेषु घादयो न प्रवर्तन्ते' इति ज्ञापनात् । अन्यथा 'वृद्धाच्छः' इत्येव सिद्ध तत्पाठस्य वैयर्थ्यप्रसङ्गात् । नाप्यसाकल्यं प्रयोजनम् , जाताधिकाराप्राक्पाठसामर्थ्यादेव तल्लाभात् । यदि संनिहिते जातार्थ एव घादयः स्युः, तदुत्तरेषु भवाद्यर्थेषु 'प्राग्दीव्यतः' इति विशिष्टावधिपरिच्छिन्नेष्वर्थेषु विधीयमानाऽणादय एव स्युस्तदा जाताधिकारानन्तरमेव 'प्रावृषष्ठप्' इत्यादिभिः सह 'राष्ट्रावारपारात्-' इत्यादयोऽपि पठ्येरन् । तस्माद्यर्थमिदं सूत्रमिति चेत् । अत्रोच्यते-'शैषिकात्सरूपः शैषिको न' इति वक्ष्यमाणार्थस्य विषयलाभाय शेषाधिकार आवश्यकः । शषिकत्वप्रयुक्तकार्यविशेष ज्ञापयितुं क्रियमाणः शेषाधिकार एव 'शैषिकान्मतुब यात्' इत्यादिश्लोकं ज्ञापयति । एष च श्लोकः सन्विधौ मतुविधौ च भाष्ये पठितः । इह तु सन्नन्ते पठित इति तत्रैव व्याख्यास्यते । अपत्यादिष्वर्थेषु घादीनां निवृत्त्यर्थमप्यधिकार आवश्यकः । न चोक्कज्ञापकेनैव तत्सिद्धिरिति वाच्यम् , ज्ञापकस्य विशेषापेक्षत्वे