SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३८४ ] सिद्धान्तकौमुदी | 'सन्नियोगशिष्टानाम् -' ( प ८७) इति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रस्य स्यात् । इति तद्धितेषु चातुरर्थिकप्रकरणम् । [तद्धितेषु शैषिक · अथ तद्धितेषु शैषिकप्रकरणम् । २८ । १३१२ शेषे । (४-२-६२ ) अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषः, तन्त्राणादयः स्युः । चतुषा गृह्यते चाचुषं रूपम् । श्रावणः शब्दः । श्रोपनिषदः पुरुषः । दृषदि पिष्टा दार्षदाः सक्तवः । उलूखले सुरण औलूखलो यावकः । अश्वैरुह्यते श्राश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं इति । वेत्रकीयायां भवा इत्यर्थः । वेत्रकीयाशब्दाद् अणि छस्य लुगिति भावः । छुस्य किमिति । एभ्यः परस्य छस्यैव संभव इति प्रश्नः । संनियोगेति । 'संनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः' इति न्यायेनेत्यर्थः । ननु 'ढे लोपोऽकद्रवाः' इत्यतो लोप इत्यनुवृत्त्यैव सिद्धे लुग्ग्रहणं किमर्थमित्यत आहलुग्ग्रहं सर्वलोपार्थमिति । प्रत्ययादर्शनस्यैव लुक्शब्दार्थस्वास् ईंयस्य लोपो लभ्यत इति भावः । लोपविधौ तु नैवं लभ्यत इत्याह-- लोपो हीति । लोपविधौ, 'सूर्यतिष्य-' इत्यतः 'य उपधायाः' इत्यनुवृत्तौ बिल्वकादिभ्यः परस्य छादेशभूतस्य ईयस्य उपधाभूतो यकारः, तस्य लोप इत्यर्थलाभाद्य कारमात्रस्य लोपः स्यात् । 'य उपधायाः' इत्यननुवृत्तौ तु 'प्रादेः परस्य' इति ईकारस्यैव लोपः स्यादिति भावः । इति तद्धितेषु चातुरर्थिकप्रकरणम् । अथ शैषिकप्रकरणं निरूप्यते । शेषे । अणादय इति । 'प्राग्दीव्यतोऽण्' इत्यादिसाधारणाः प्रत्यया इत्यर्थः । चतुर्भिरिति । अश्वादिभिरिति शेषः । चतुर्दश्यामिति । कृष्णचतुर्दश्यां रात्रौ रक्षांसि दृश्यन्ते इत्यागमः । इत्यनुवर्तमान लुग्ग्रहणं व्यर्थमित्याशङ्कयाह – सर्वलोपार्थमिति । यमात्रस्येति । न च 'आदेः परस्य' इतीकारस्य भाव्यमिति वाच्यम् । 'सूर्यतिष्य -' इत्यतो यकारसम्बद्धस्यैव लोपस्यानुवर्तनादिति भावः ॥ इति चातुरर्थिकप्रकरणम् ॥
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy