SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३८३ नड्वलः । 'शादो जम्बालघासयोः' इत्यमरः । शाहलः। १३०८ शिखाया वलच । (४-२-८६) शिखावलम् । १३०६ उत्करादिभ्यश्छः । (४-२-६०) उत्करीयः । १३१० नडादीनां कुक्च । (४-२-६१) नडकीयम् । 'ऋञ्चा हस्वत्वं च' (ग सू ८०)। क्रुञ्चकीयः। 'तक्षबलोपश्च' ( ग सू ८१ ) तक्षकीयः । १३११ बिल्वकादिभ्यश्छस्य लुक् । (६-४-१५३) नडावन्तर्गता बिल्वकादयः, तेभ्यश्छस्य लुक्नद्धिते परे । बिल्वा यस्यां सन्ति सा बिस्वकीया । तस्यां भवा बेल्पकाः। वेत्रकीयाः, वैत्रकाः । 'छस्य' किम्-छमात्रस्य लुग्यथा सास्कुको निवृत्तिर्मा भूत् । अन्यथा 'प्रत्यये भाषायां नित्यम्' इति तु न, तस्य सवर्णे परतो विधेः । न हि षकारसवर्णोऽनु. नासिकोऽस्ति । नडशादावलच् । नड्वल इति । डिवाहिलोपः । शाद्वलइति । शादा अस्मिन् सन्तीति विग्रहः । शादो दन्त्योपधः । डोपध इत्यन्ये । 'नडप्राये नड्वान्नड्वल इत्यपि' इत्यमरः । 'शाद्वलः शादहरिते ' इति च । शिखाया वलच् । निर्वृत्ताद्यर्थ सूत्रं देशे तनाम्नि अणो बाधनार्थ च । 'दन्तशिखात्संज्ञायाम्' इति पञ्चमे वक्ष्यमाणं तु अदेशेऽपि शिखावल इति रूपार्थम् । उत्करादिभ्यश्छः। चातुरर्थिक इति शेषः । उत्करीय इति । देशविशेषोऽ. यम् । उत्करेण निवृत्तमिति वा, तस्य निवासः, तस्य अदूरभव इति वा । नडादीनां कुक्च । नडादिभ्यः छः स्यात् चातुरर्थिकः प्रकृतेः कुक् च । क्रुश्चाहस्वत्वं चेति । नडादिगणसूत्रम् । क्रुञ्चाशब्दाच्छः, प्रकृतेः कुक्, आकारस्य ह्रस्वश्च । कुञ्चकीय इति । क्रुञ्चा अस्मिन् सन्तीत्यादिविग्रहः । तक्षन्नलोपश्च । इदमपि गणसूत्रम् । तक्षशब्दात् छः, कुक्, नकारस्य लोपश्च । बिल्वकादिभ्यश्छस्य लुक् । षाष्ठमिदं सूत्रम् । विल्वकादीति नडाद्यन्तर्गतबिल्वादीनां कृतकुगागमानां निर्देशः । ककारादकार उच्चारणार्थः । तद्धित इति । 'आपत्यस्य च तद्धिते-' इत्यतस्तदनुवृत्तेरिति भावः । बिल्वकीयेति । 'नडादीनां कुक च' इति छः । प्रकृतेः कुक् च । तस्यां भवा बैल्वका इति । बिल्वकीयाशब्दाद्भवार्थे अण, तस्मिन्परे छस्य लुगिति भावः । वेत्रकीया इति । वेत्राणि अस्यां सन्तीत्यर्थे नडादित्वाच्छः, प्रकृतेः कुक् च इति भावः। वैत्रका शिखाया । निर्वृत्ताद्यर्थे देशे तन्नाम्न्यणो बाधनार्थ चेदम् । 'दन्तशिखात्संज्ञायाम्' इति पञ्चमे वक्ष्यमाणं त्वदेशेऽपि शिखावल इति रूपसिद्ध्यर्थम् । नडादीनाम् । नड प्लक्ष बिल्व वेणु वेत्र वेतसादयो नडादयः । नडाद्यन्तर्गणसूत्रमाह क्रुश्चेति । एवं तक्षन्नित्यपि । उभयत्रापि षष्ठ्याः सौत्रो लुक् । बिल्वका 'ढे लोप-' इत्यतो लोप .
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy