________________
३८२ ]
सिद्धान्तकौमुदी | [तद्धितेषु चातुरर्थिक
( १८६७ ) इति वच्यमाणेन वः । 'महिषाच्चेति वक्रव्यम्' ( वा २७६१ ) महिष्मान्नाम देश: । १३०७ नडशादाड्ड्वलच् । (४-२-८८ ) च्छब्दे तु ‘मादुपधायाः--' इति मस्य वकार इत्यर्थः । वस्तुतस्तु नड्वच्छब्देऽपि 'झयः ' इत्यस्यासिद्धत्वात् 'मादुपधायाः -' इत्येव न्याय्यम्, 'प्रकरणे प्रकरणमसिद्धम्, नतु एकस्मिन्नेव प्रकरणे पूर्वयोगं प्रति परस्यासिद्धत्वम्' इत्यस्य ' उपसर्गादसमासे-' इति सूत्रभाष्ये दूषितत्वात् । वेतस्वानित्यत्र रुत्वं तु न, अल्लोपस्य स्थानिवत्वात् । 'न पदान्त-' इति निषेधस्तु न, पदे अन्त इति विगृह्य पदे परतश्चरमावयवे कर्तव्ये परपदस्थाजादेशस्यैव तन्निषेधप्रवृत्तेर्भाष्याभ्युपगतत्वात् । 'पूर्वत्रासिद्धे न स्थानिवत्' इति निषेधोऽपि न, पदे अन्त इति विगृह्य तत्र स्थानिवत्त्वनिषेधव्यावृत्तिसाधनपरभाष्य प्रामाण्येन पदचरमावयवकार्यविधायकातिरिक्तस्यैव त्रैपादिकस्य ग्रहणादिति शब्देन्दुशेखरे विस्तरः । महिषाञ्चित्यनन्तरं तु ड्मतुबिति शेषः । महिष्मानिति । महिषा अस्मिन् सन्तीति विग्रहः । डित्त्वाट्टिलोपः । अल्लोपस्य स्थानिवत्त्वान्न जश्त्वम् । वदित्याशयेनाह - भय इति । नड्वानित्यत्रापि परत्वाद् 'मयः' इत्यनेनैव वकारो न तु 'मादुपधायाः -' इत्यनेनेति भावः । न चासिद्धत्वात् 'मादुपधायाः -' इत्येव तत्र न्याय्यमिति वाच्यम्, 'प्रकरणे प्रकरणमसिद्धम्, न तु योगे योगः' इति ' उपसर्गादसमासेऽपि -' इत्यत्र भाष्ये निर्णीतत्वात् । ननु वेतस्वानित्यत्र वेतसशब्दस्य सुबन्तत्वेन पदत्वाद् ड्मतुपो डित्त्वसामर्थ्याट्टिलोपे एकदेशविकृतन्यायेन पदत्वात्सस्य रुत्वं स्यात् । न च स्थानिवत्त्वेन निर्वाहः, पूर्वत्रासिद्धे तन्निषेधादिति चेत्, मैवम्, अन्तररुत्वं प्रति बहिरङ्गस्य टिलोपस्यासिद्धत्वात् । न च षाष्टी बहिरङ्गपरिभाषा त्रैपादिकं न जानातीति वाच्यम्, कार्यकालपक्षाभ्युपगमात् । नन्वेवमपि 'स्वादिषु-' इति सान्तस्य पदत्वे तदाश्रयरुत्वस्यान्तरङ्गत्वाभावाद्वहिरङ्गपरिभाषा न प्रवर्तत इति रुत्वं दुर्वारमेव । न च ' नद्यां मतुप्' इति चतुरर्थ्यां मतुपो विधानाच्चातुरर्थिको ड्मतुप् मत्वर्थीय इति 'तसौ मत्वर्थे' इत्यनेन भत्वं शङ्कयम्, टिलोपस्य स्थानिवत्त्वात् । न च पदत्वेऽप्येवम्, तस्य स्त्वविधिना सह कार्यकालतया 'पूर्वत्रासिद्धे न -' इति निषेधात् इति चेत् — अत्राहुः -- पदसंज्ञायां यथोद्देशपक्षाश्रयणात् 'पूर्वत्रासिद्धे न-' इति निषेधाप्रवर्तनात्स्थानित्त्वप्रवृत्त्या सान्तस्यापदत्वादिति । एतेन घटी आमलकीत्यत्र 'स्वादिषु -' इति पदत्वाज्जश्त्वं स्यात्, औत्सीत्यत्र तु संयोगान्तलोपः स्यादिति शङ्कापि परास्तेति दिक् । ननु प्रक्रियालाघवाय वतुबेव विधीयताम्, अथवा 'कुमुदनडवेतसेभ्यो डित्' इति प्रकृतस्य मतुपो डित्त्वमतिदिश्यताम्, किमनेन ड्मतुब्विधानेन । सत्यम्, अन्यतो विधानार्थं तत् । तत्सिद्धार्थकथनपरं वार्तिकमाह - महिषाच्चेति ।