________________
प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३८१ अस्माचातुरर्थिकस्य वा लुप्स्यात् । १३०३ ठक्छौ च । (४-२-८४) शर्कराया एतौ स्तः । कुमुदादौ वराहादौ च पाठसामर्थ्यात्पने ठकको । वाग्रहणसामर्थ्यापक्ष औसर्गिकोऽण् । तस्य लुम्विकल्पः । षड् रूपाणि । शर्करा, शार्करम् , शार्करिकम् , शर्करीयम्, शर्करिकम्, शार्करकम् । १३०४ नद्यां मतुप् । (४-२-८५) चातुरर्थिकः । इतुमती। १३०५ मध्वादिभ्यश्च । (४-२-८६) मतुप्स्याचातुरर्थिकः । मधुमान् । अनद्यर्थ प्रारम्भः । १३०६ कुमुदनडवेतसेभ्यो मतुप् । (४-२-८७) कुमुद्वान् । नड्वान् । वेतवान् । प्राययोः ‘झयः' (सू १८१८) इति, अन्त्ये 'मादुपधाया:-' काश्या उत्तरतः प्रसिद्धा । अवयवाभिप्रायं पूजार्थ वा बहुवचनम् । वरणानामदूरभवं नगरं वरणाः । अत्र लुप्तप्रत्ययान्तस्य वरणाशब्दस्य नगरे वाच्ये प्रकृतिवत्स्त्रीलिङ्गं बहुवचनं च। शर्कराया वा । लुबित्यनुवर्तते । प्रत्यासत्त्या चातुरर्थिकस्येति लभ्यते । तदाह-अस्मादिति ठक्छौ च । 'शकराया' इत्यनुवर्तते । तदाहशर्कराया एतौ स्त इति । उच्ककाविति । कुमुदादित्वात् ठच् वराहादित्वात् कक् इति विवेकः । वाग्रहणेति । अन्यथा तत्र पाठसामर्थ्यादेव ठचः ककश्च लोपविकल्पसिद्धेस्तद्वैयर्थ्यादिति भावः । शर्करेति । अणो लुपि युक्तवद्भावे रूपम् । शार्करमिति । अणि रूपम् । शार्करिकमिति । उकि रूपम् । शर्करीयमिति । छ रूपम् । शर्करिकमिति । ठचि रूपम् । शार्करकमिति । ककि रूपम् । शकराः सन्त्यस्मिन् इत्यर्थः, शर्कराभिः निर्वृत्तमिति वा। नद्यांमतुप् । चातुरर्थिक इति । शेषपूरणम् । इक्षुमतीति । मतुपि उपावितौ । इक्षवः सन्त्यस्मिन् इत्यर्थः । मध्वादिभ्यश्च । शेषपूरणेन सूत्रं व्याचष्टे । मतुप् स्याचातुरर्थिक इति । मधुमानिति । मधूनां निवास इत्यर्थः। पूर्वेण सिद्धे किमर्थमिदमित्यत आह–अनद्यर्थ इति । कुमुदनड । कुमुद नड वेतस एतेभ्यो ड्मतुप् स्यादित्यर्थः ।डकार उपौ च इतः । अयं मत्वर्थ एवेति 'न पदान्त-' इति सूत्रभाष्यकैयटयोः स्थितम् । कुमुद्वानिति । कुमुदा अस्मिन् सन्तीति विग्रहः । ड्मतुपि डित्त्वात् टिलोपः । नवानिति। नडा अस्मिन् सन्तीति विग्रहः। कुमुद्वान्कुमुद. प्राये इत्यमरः । वेतस्वानिति । वेतसा अस्मिन् सन्तीति विग्रहः । श्राद्ययो. रिति । कुमुद्रच्छन्दे नड्वच्छब्दे च 'झयः' इति मतुपो मस्य वकारः । वैतस्वखलतिकमित्यादीन्युदाहर्तव्यानि । कुमुद वत्त्वस्यासिद्धत्वात्तस्मिन्कर्तव्ये टिलोपो न स्थानि
१ 'शर्कराणां निवास इत्यर्थः' इति क-ख । २ 'इथूणां निवास इत्यर्थः' इति क-ख।