SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३८० ] सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिककिम्-पञ्चाना जनपदः । गोदौ ग्रामः । 'हरीतक्यादिषु व्यक्निः' (वा ७१५)। हरीतक्याः फलानि हरीतक्यः । 'खलतिकादिषु वचनम्' (वा ७१६) । खल. तिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि । 'मनुष्यलुपि प्रतिषेधः' (वा ७१७) मनुष्यलक्षणे लक्थै विशेषणानां न । लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः । १३०१ वरणादिभ्यश्च । (४-२-२) अजनपदार्थ प्रारम्भः । वरणानामदूरभवं नगरं वरणाः । १३०२ शर्कराया वा । (४-२-८३) प्रकृतिवद्बहुवचनम् । गोदौ रमणीयाविति । गोदयोर्निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदस्य तद्विशेषणस्यापि प्रकृतिवद् द्विवचनम् । पश्चाला जनपद इति । जनपदशब्दस्य जातिवाचित्वान्न प्रकृतिवद्बहुव वनम् । गोदी ग्राम इति । अत्र प्रामशब्दस्य जातिवाचित्वान्न प्रकृतिवद् द्विव वनम् । हरी. तक्यादिषु व्यक्तिरिति । वार्तिकमिदम् । लुपि लिङ्गं प्रकृतिवद्भवति, न तु वचनमिति शेषः । हरीतक्याः फलानि हरीतक्य इति । 'हरितक्यादिभ्यश्च' इति विकारप्रत्ययस्य लुप् । अत्र प्रत्ययार्थेषु फलेषु प्रकृतिवत्स्त्रीलिङ्गमेव भवति, न त्वेकवचन मिति भावः । खलतिकादिषु वचनम् । वार्तिकमिदम् । एषु लुपि प्रकृतिवद्वचनमेव भवति, नतु लिङ्गमित्यर्थः । खलतिक वनानीति । 'वरणादिभ्यश्च' इति लुप् । अत्र खलतिकशब्दस्य लुप्तप्रत्यायान्तस्य प्रकृतिवत्पुल्लिङ्गत्वं न भवति, किन्तु एकवचनमेवेति भावः । मनुष्यलुपि प्रतिषेध इति । वार्तिक. मिदम् । मनुष्यलक्षण इति । मनुष्यात्मके लुप्तप्रत्ययार्थे यानि विशेषणानि तेषां प्रकृतिवल्लिङ्गवचनप्रतिषेध इत्यर्थः । चचा अभिरूप इति । चच्चा तृणमयी प्रतिमा, तत्सदृशो मनुष्यः चञ्चा । "इवे प्रतिकृतौ' इत्यधिकारे 'संज्ञायाम्' इति कनः 'लुम्मनुष्ये' इति लुप्। अत्र लुप्तप्रत्ययान्तस्य चञ्चाशब्दस्य मनुष्टेः वाच्ये प्रकृतिलिङ्गत्वम्, नतु तद्विशेषणस्य अभिरूपशब्दस्येति भावः । इति युक्तवद्भावप्रकरणम् । अथ प्रकृतमारभते । वरणादिभ्यश्च । 'जनपदे लुप्' इत्युत्तरमिदं सूत्रम् । वरणादिभ्यः परस्य चातुरर्थिकप्रत्ययस्य लुप् स्यादित्यर्थः । पूर्वेणैव सिद्ध किमर्थमिदमित्यत आह-अजनपदार्थ प्रारम्भ इति। वरणानामिति । वरणा नाम नदी स्त एव । पञ्चाला जनपदाः सुभिक्षाः सम्पन्नपानीया इति । हरीतक्य इति । 'हरीतक्यादिभ्यश्च' इत्यणो लुप् । तत्र हि 'लुप् च' इत्यतो लुबनुवर्तते । खलतिकमिति । 'वरणादिभ्यश्च' इति लुप् । चञ्चेति । 'संज्ञायाम्' इति कनो 'लुम्मनुष्ये' इति लुप् । चचा तृणमयः पुमान् । वरणादि । चकारोऽनुक्तसमुच्चयार्थः, तेनास्याकृतिगणत्वं सिद्धम् । वरणा इति । एवं कटुबदरी, शिरीषाः, गोदी
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy