________________
प्रकरणम् २७] बालमनोरमा-तत्त्वबोधिनीसहिता। [३७६ यदि हि योगस्यावयवार्थस्येदं बोधकं स्यात्तदा तदभावे न दृश्येत । १२६८ प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् । (१-२-५६) 'प्रत्ययार्थः प्रधानम्' इत्येवं रूपं वचनमप्यशिष्यम् । कुतः ? अर्थस्य लोकत एव सिद्धेः। १२६६ कालोपसर्जने च तुल्यम् । (१-२-५७) अतीतायाः रात्रेः पश्चार्धेनागामिन्याः पूर्वार्धेन च सहितो दिवसोऽद्यतनः, विशेषणमुपसर्जनम् इत्यादि पूर्वाचार्यैः परिभाषितम् , तत्राप्यशिष्यत्वं समानम् , लोकप्रसिद्धः । १३०० विशेषणानां चाजातेः। (१-२-५२ ) लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने तो जाति वर्जयित्वा । पञ्चाला रमणीयाः । गोदौ रमणीयौ । अजातेः कारे बाधकमाह--योगप्रमाणे च । पच्चालागवङ्गादिशब्देषु योगस्य अवयवार्थस्य प्रमापकत्वे सति तदभावे पञ्चालाङ्गादिक्षत्रियसम्बन्धाभावे संप्रति शूदादिराजके जनपदे पञ्चालादिशब्दो न प्रयुज्येत, प्रयुज्यते च यतः, अतः पञ्चालादिशब्दा जनपदविशेषेषु केवलरूढा इति युक्तमित्यर्थः । तदाह-यदि हि योगस्येति । अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निराचष्टे । प्रधानप्रत्ययार्थ। प्रत्ययार्थ इति । प्रकृत्यर्थं प्रति प्रत्ययार्थः प्रधानं विशेष्यम् , प्रकृत्यर्थस्तु तद्विशेषणमित्येवं यत्पूर्वाचार्यवचनं तदपीत्यर्थः । कालोपसर्जने च । कालश्च उपसर्जनं चेति समाहारद्वन्द्वाद् विषयसप्तमी । अशिष्यमित्यनुवृत्तं भावप्रधानमाश्रीयते । कालविषये उपसर्जनविषये च यत्पूर्वाचार्याणां विशेषवचनं तत्राप्यशिष्यत्वं समान. मित्यर्थः । तद्विशेषवचनं विशदयन् व्याचष्टे-अतीताया इत्यादिना । विशेषणानां चाजातेः । कम्य विशेषणानामित्याकाङ्क्षायां लुबित्यनुवृत्तं षष्ट्या विपरिणतं संबध्यते, लुप्तप्रत्ययार्थस्येति लभ्यते । तदाह-लुबर्थस्येति । तद्वदिति। प्रकृतिवदित्यर्थः । “लुपि युक्तवयक्तिवचने' इत्यस्मादुत्तरं पठितमिदं सूत्रं तत्रैव व्याख्यातुमुचितम् । पञ्चाला रमणीया इति । पञ्चालानां निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदं प्रति विशेषणस्यापि रमणीयशब्दस्य न दृश्यतेति । विनापि क्षत्रियसम्बन्धं पञ्चालादिशब्दो जनपदेषु प्रयुज्यत इति नार्थः सूत्रेणेत्यर्थः । प्रभङ्गात्पूर्वाचार्यपरिभाषितमन्यदपि प्रत्याचष्टे-प्रधानेत्यादिना । विशेषणानाम् । यद्यपि सूत्रपाठे 'लुपि युक्तवत्-' इति सूत्रादनन्तरमेतत्सूत्रं पठित्वा 'तदशिष्यम्-' इत्यारब्धत्वात्तत्रैवेदं व्याख्यातुमुचितम् । तथापि जातेः प्रतिषेधमात्रपरमिदम् , न तु युक्तवद्भावपरमित्याशयेन तत्र नोक्तमित्याहुः । पश्चाला रमणीया इति । कथं तर्हि 'पञ्चाला जनपदः सुभिक्षः सम्पन्नपानीयः' इति प्रयोग इति चेत् , जनपदविशेषणत्वादित्यवेहि । पञ्चालविशेषणत्वाभ्युपगमे तु तद्वल्लिङ्गवचने