________________
३७८ ]
सिद्धान्तकौमुदी | [तद्धितेषु चातुरर्थिक
कुरवः । श्रङ्गाः । वङ्गाः । कलिङ्गाः । १२६५ तदशिष्यं संज्ञाप्रमाणत्वात् । ( १-२-५३ ) युक्तवद्वचनं न कर्तव्यम्, संज्ञानां प्रमाणत्वात् । १२६६ लुब्योगाप्रख्यानात् । ( १-२ - ५४ ) लुबपि न कर्तव्यो ऽवयवार्थस्येहाप्रतीतेः । १२६७ योगप्रमाणे च तदभावेऽदर्शनं स्यात् । ( १-२-५५ ) पञ्चालसंज्ञकानां राज्ञामित्यर्थः । पञ्चाला इति । तस्य निवास इनि विहितस्याणः 'जनपदे लुप्' इति लुपि प्रकृतिवद् बहुवचनमिति भावः । कुरव इत्यादि । कुरूणाम् अङ्गानां वङ्गानां कलिङ्गानां च निवासो जनपद इति विग्रहः । लिङ्गातिदेशे तु कटुबदर्या अदूरभवो जनपदः कटुबदरीत्युदाहार्यम् । तदेतत्पूर्वाचार्यसूत्रं पाणिनिः प्रत्याचष्टे । तदशिष्यम् । यथा दारा इत्यादौ शास्त्रीयपुंस्त्वविशिष्टस्यैव स्त्रीरूपार्थस्य भानम्, तथा लुपि सति शास्त्रीयप्रकृत्यर्थगतलिङ्गसंख्याविशिष्टस्यैव स्वार्थस्य लोकव्यवहारादेव भानं संभवति, न तु तदंशे शास्त्र व्यापारापेक्षेति भावः । संज्ञानामिति । लोकव्यवहाराणामित्यर्थः । एवं च लुबपि न विधेय इत्याह- लुब्योगाप्रख्यानात् । अशिष्यमित्यनुवृत्त पुंल्लिङ्गेन विपरिणतं लुबित्यनन्तरं संबध्यते । तदाह - लुबपि न कर्तव्य इति । योगः अवयवार्थः, तस्य अख्यानाद् अतीतेरित्यर्थः, तदाह — श्रवयवेति । नहि पञ्चालान्वङ्गादिसंबन्धित्वेन पञ्चाला अङ्गा वङ्गा इत्यादितो बोधः, अतः प्रत्यय एव तत्र नास्तीति भावः । प्रत्ययस्वी -
त्वं स्यात् । नन्वत्र शिरीषाणामिति षष्ठीबहुवचनं कुतो नातिदिभ्यत इति चेत् । अत्राहुः — वचनमिह संख्या, न त्वेकवचनद्विवचनादि । न चैवमपि संख्याबोधकत्वेन श्रुतैव षष्ठी परिगृह्यतामिति वाच्यम्, षष्ठयर्थस्य तद्धितवृत्त्यन्तर्गतत्वादुक्तार्थे प्रथमाया एव युक्तत्वादिति । पञ्चाला इत्यादि । यद्यप्यन्त्राभिधेयलिङ्गवत्त्वेऽपी सिद्धिः, तथापि कटुबदर्या अदूरभवो ग्रामः कटुबदरीत्यादिसिद्धये प्रकृतिलिङ्गातिदेश इति भावः । पूर्वाचार्यानुरोधेन कृतं सूत्रं संप्रति प्रत्याचष्टे - तदशिष्यमिति । पञ्चालाः, अङ्गाः, वङ्गाः, कलिङ्गा इत्यादयो जनपदस्य यथायथं बहुवचनाद्यन्ता एव संज्ञा, न त्वत्र यत्नेन लिङ्गसंख्ये प्रतिपादनीये । आपो दारा इत्यादिषु यथा । न हि तत्र शात्रेण लिङ्गसंख्ये प्रतिपाद्येते इति भावः । उपजीवकं प्रत्याख्यायोपजीव्यं प्रत्याचष्टे - - लुब्योगेति । 'जनपदे लुप्' 'वरणादिभ्यश्च' इति द्विसूत्री लुप्शब्देन विवक्षित । 'अशिष्यम्' इति सम्बध्यत एव तदाह - लुबपीति । प्रकृतिप्रत्ययार्थयोः सम्बन्धो योग इत्याशयेन फलितमाह - अवयवार्थस्येति । अप्रख्यानादिति व्याचष्टे – अप्रतीतेरिति । पञ्चालादयः शब्दाः क्षत्रियेषु यथा रूढास्तथा जनपदेऽपीति 'तस्य निवासः' 'अदूरभवच' इति तद्धितो नैवोत्पद्यते, किमनेन लुपो विधानेनेस्यर्थः ।