________________
प्रकरणम् २७] बालमनोरमा-तत्त्वबोधिनीसहिता। [३७७ (४-२-८० ) सप्तदशभ्यो गणेभ्यः सप्तदश क्रमात्स्युश्चतुराम् । अरीहणादिभ्यो वुञ् , अरीहणेन निवृत्तमारीहणकम् । कृशाश्वादिभ्यश्छण् , काश्विीयम् । ऋश्यादिभ्यः कः, ऋश्यकम् । कुमुदादिभ्यष्ठच्, कुमुदिकम् । काशादिभ्य इलः । काशिलः । तृणादिभ्यः सः, तृणसम् । प्रेक्षादिभ्य इनिः, प्रेक्षी । अश्मादिभ्यो रः, अश्मरः सख्यादिभ्यो ढञ् , साखेयम् । सङ्काशादिभ्यो एयः, साङ्काश्यम्। बलादिभ्यो यः, बल्यम् । पहादिभ्यः फक्, पाक्षायणः । 'पथः पन्थ च' (ग सू ७६ ) पान्थायनः । कर्णादिभ्यः फिञ् , काणायनिः । सुतङ्गमादिभ्य इञ् , सौतङ्गभिः । प्रगद्यादिभ्यो न्यः, प्रागद्यः। वराहादिभ्यः कक् , वाराहकः। कुमुदादिभ्यष्ठक् , कौमुदिकः । १२६३ जनपदे लुप् । (४-२-८१) जनपदे वाच्ये चातुर्थिकस्य लुप्स्यात् । १२६४ लुपि युक्तवद्यक्तिवचने । (१-२-५१) लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । श्रूयमाणस्य श्रादिशब्दस्य अरीहणादिषु प्रत्येकमन्वयः । तथा च अरीहणादिभ्यो वुञ् , कृशाश्वादिभ्यः छण इत्येवं सप्तदश वाक्यानि संपन्नानि, तदाहसप्तदशभ्य इति । अरीहणादिसप्तदशगणेभ्यो वुञादयः प्रत्ययाः क्रमात्स्युरित्यर्थः । चतुरामिति । तदस्मिन्नस्तीति देशे तन्नाम्नि' 'तेन निवृत्तम्' 'तस्य निवासः' 'अदूरभवश्च' इति चतुर्वर्थेषु प्रथमोच्चारितात्तत्तद्विभक्त्यन्ताद् यथायोगं प्रत्यया इति पलितम् । एतेषु गणेषु चेतनवाचका अचेतनवाचकाश्च सन्ति । तत्र यथायोगं चतुरा अन्वयः । प्रेक्षीति । प्रेक्षत इति प्रेक्षः, तेन निवृत्तमित्यर्थः । प्रेक्षयः निर्वृत्तमिति वा । पथः पन्थ च इति । पेक्षादिगणसूत्रमिदम् । पान्थायन इति । पथः अदूरभव इत्यथः । जनपदे लुप् । चातुरर्थिकस्येति। प्रकरणलभ्यमिदम् । लुपि युक्तवत् । प्रकृतिभूतः शब्दो युक्तः, व्यक्तिः लिङ्गम् , वचनं संख्येति पूर्वाचार्यसंकेतः । तदाह--लुपि सति प्रकृतिवल्लिङ्गवचने स्त इति । लुबिति प्रत्ययादर्शनमुच्यते । लुपः प्रवृत्तेः प्राक् प्रत्ययप्रकृतेर्यल्लिङ्गं वचनं ते एव लुपि सति भवतः, न तु प्रत्ययार्थविशेष्यमनुसृत्येत्यर्थः । पञ्चालानामिति । नैकशेषः । श्रादिशब्दः प्रत्येकं सम्बध्यत इत्याह-अरीहणादिभ्य इति । पक्षाद्यन्तर्गणसूत्रमाह-पथ इति । जनपदे लुप् । तन्नाम्नीत्येव, नेह-उदुम्बराः सन्त्यस्मिन्नौदुम्बरो जनपदः, न ह्यत्र लुबन्तं नामधेयम् जनपदस्यैकत्वादेकवचने प्राप्ते बहुवचनादिफलकमतिदेशमाह-लुपि युक्तवदिति । व्यक्तिवचने किम् , शिरीषाणामदूरभवो ग्रामः शिरीषाः, 'वरणादिभ्यश्च' इति लुप् । तस्य वनं शिरीषवनम् । इह वनस्पतित्वमतिदिश्यत । ततश्च 'विभाषौषधिवनस्पतिभ्यः' इति