________________
३७६ ] सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिक दिभ्योऽण (४-२-७७ ) अमोऽपवादः । सुवास्तोरदूरभवं सौवास्तवम् । वर्ष, वार्णवम् । अएग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी । १२६० रोणी। (४-२-७८) रोणीशब्दात्तदन्ताचाए । कूपाजोऽपवादः । रौणः । प्राजकरौणः । १२६१ कोपधाच्च । (४-२-७६) अण् । अनोऽपवादः । कार्णच्छिद्रकः कूपः । कार्कवाकवम् । त्रैशङ्कवम् । १२६२ वुञ्छएकछजिलसेनिरढण्ययफक्फिजियकक्ठकोऽरीहणकृशाश्वयकुमुदकाशतणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः । सुवास्त्वादिभ्योऽण् । अत्र इति । श्रोरनित्यस्यापवाद इत्यर्थः । सौवास्तवमिति । अणि श्रोगुणः। वार्णवमिति । वर्णोरदूरभवमित्यर्थः । ननु 'ओरञ्' इत्येव सिद्धे पुनर्विधिसामर्थ्यादेव तदननुवृत्तौ अणि सिद्धे पुनरएनहणं व्यर्थमित्यत आह-अरग्रहणमिति । रोणी । लुप्तपञ्चमीकमिदम् । तदन्तादिति । 'येन विधिः' इति सूत्रस्थभाष्यादिह प्रत्ययविधावपि तदन्तविधिरिति भावः । रौण इति । रोण्या निवृत्तः कूप इत्यर्थः। आजकरौण इति । अजकरोण्या निवृत्त इत्यर्थः। अणि 'यस्य' इति ईकारलोपः। कोपधाच्च । कार्णच्छिद्रक इति । कर्णच्छिद्रकेण निवृत्तः कूप इत्यर्थः । कार्कवाकवमिति । कृकवाकुना निवृत्तः कूप इत्यर्थः। ओगुणः, श्रादिवृद्धौ रपरत्वम् । त्रैशङ्कवमिति । त्रिशङ्कुना निवृत्तः कूप इत्यर्थः । वुञ्छण् । वुञ् , छण् , क, रुच् , इल, स, इनि, र, ढ, ण्य, य, फक् , फिल् , इञ् ञ्य, कक् , ठक् , एतेषां सप्तदशानां द्वन्द्वात्प्रथमाबहुवचनम् । अरोहण, कृशाश्व, ऋश्य, कुमुद, काश, तृण, प्रेत, अश्मन् , सखि, सङ्काश, बल, पक्ष, कर्ण, सुतङ्गम, प्रगदिन् , वराह, कुमुद एतेष' सप्तदशानां द्वन्द्वः। एते श्रादयो येषामिति बहुव्रीहेः पञ्चमीबहुवचनम् । यथासंख्यावगमाय कुमुदशब्दयोरेकशेषो न कृतः । प्रगदिन्शब्दे नलोपाभावस्तु इकारान्तत्वभ्रमनिरासाय । द्वन्द्वान्ते सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वादशग्रहणाभावे मत्वन्तविशेषणं स्यादेव । ततश्चाहिमतमित्यादावतिप्रसङ्गः स्यादिति भावः । रोणी । रोणीशब्दः प्रत्ययमुत्पादयतीत्यर्थः । तथा च फलितमाह-रोणीशब्दादिति । पञ्चम्याः सौत्रो लुगित्यन्ये । तदन्तादिति । 'येन विधिः-' इति सूत्रे भाष्यस्थविशेषवचनाद्, विशेषणविशेष्ययोः कामचारमाश्रित्य 'समासप्रत्ययविधौ प्रतिषेधः' इत्यस्य प्रत्याख्यानाद्वा तदन्तविधिरिति भावः । वुञ्छण । 'ठक्' इत्यन्तमेकं समस्तपदम् । अरीहणादि त्वपरम् । तत्र प्रथमतः कुमुदान्तानां चतुर्णा द्वन्द्वं विधाय, द्वितीयेन काशादिकुमुदान्तर्द्वन्द्वेन सह पुनर्द्वन्द्वो बोध्यः । तेन कुमुदशब्दस्य द्विःपाठेऽपि