________________
प्रकरणम् ३३ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ५०१
यशस्यः । धन्यः । स्वर्ग्यः । 'गोयचः ' किम् - विजयस्य वजैयिकः । ' श्रसंख्या- ' इत्यादि किम् - पञ्चानां पञ्चकम् । सप्तकम् । प्रास्थिकम् । खारीकम् । श्रश्वादिआश्विकम् । श्रश्मिकम् | 'ब्रह्मवर्चसादुपसंख्यानम् ' ( वा ३०३५ ) । ब्रह्मवर्चस्यम् । १७०६ पुत्राच्छः । ( ५-१-४० ) चाद्यत् । पुत्रीयः, पुत्र्यः । १७०७ सर्वभूमिपृथिवीभ्यामण । ( ५-१-४१) सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यते । १७०८ तस्येश्वरः । ( ५-१-४२) । १७०६ तत्र विदित इति च । ऽपवादः । यच इति । उदाहियत इति शेषः । धन्य इत्यादि । धनस्य यशसः स्वर्गस्य च निमित्तमित्यर्थः । विजयस्येति । निमित्तमिति शेषः । वैजयिक इति । श्रयिष्ठक् । पञ्चानामिति । निमित्तमिति शेषः । पञ्चकमिति । 'सङ्ख्यायाः ' इति कन् । सप्तकमिति । सप्तानां निमित्तमित्यर्थः । प्रास्थिक इति । प्रस्थस्य निमित्तमित्यर्थः । 'आर्थात् -' इति ठग्विधौ परिमाणपर्युदासात् प्रा. ग्वतीयष्ठञ् । खारीकमिति । खार्या निमित्तमित्यर्थः । खार्या ईकन् । अश्वादीति । प्रत्युदाहरणसूचनमिदम् । श्राश्विकमिति । श्रश्वस्य निमित्तमित्यर्थः । आर्हीयष्ठक् । आश्मिकमिति । अश्मनो निमित्तमित्यर्थः । श्रयिष्ठक् । 'नस्तद्धिते' इति टिलोपः । ब्रह्मवर्चसादिति । 'गोद्यचः' इति सूत्रे 'ब्रह्मवर्चसाच ' इति वक्तव्यमित्यर्थः । ब्रह्मवर्चस्यमिति । ब्रह्मवर्चसस्य निमित्तमित्यर्थः । पुत्राच्छु च । तस्य निमित्तमित्येव । कथं तर्हि 'रेभिर यतात्मानः पुत्रीयामिष्टिमृत्विजः” इति ? नहीष्टिः संयोग उत्पातो वा । उध्यते - संयुज्यतेऽनेनेति संयोगः । इष्टथा हि पुत्रेण फलेन युज्यते यष्टा । सर्वभूमि । तस्य निमित्तमित्येव । सर्वभूमि, पृथिवी आभ्यां यथासङ्ख्यमणत्रौ स्तः । सार्वभौम इति । ठञोऽपवादअण् । पार्थिव इति । पृथिव्या निमित्तं संयोग उत्पातो वेत्यर्थः । स्त्रियां पार्थिवी । सार्वभौमशब्दे कथमुभयपदवृद्धिरित्यत आह- सर्वभूमिशब्दोऽनुशविकादिषु पठ्यत इति । तथा च ' अनुशतिकादीनां च' इत्युभयपदवृद्धिरिति भावः । तस्येश्वरः । तत्र विदित इति च । सूत्रद्वयमिदम् । 'सर्वभूमिपृथिवीभ्याम् ' पञ्चकमिति । संख्यालक्षणः कन् । श्रश्मिकमिति । श्रश्मनो निमित्तमित्यर्थे ठक् । 'नस्तद्धित' इति टिलोपः । पुत्राच्छ च । 'गोद्यचः -' इति नित्यं यति प्राप्ते वचनम् । कथं पुत्रीयः क्रतुरिति । नहि क्रतुः संयोगो नाप्युत्पात इति चेत् । अत्राह हरदत्तः —— संयुज्यतेऽनेनेति व्युत्पत्त्या क्रतुरपि संयोग एव, यागकरणेन हि पुरुषः फलेन संयुज्यतेऽतो यागादिरपि संयोगः, न केवलं सम्बन्ध एवेत्याग्रह इति। सर्वभूमि ।