________________
५०० ]
सिद्धान्तकौमुदी |
| तद्धितेष्वाहीय.
1
ठक् । नैष्किकम् । १७०३ इगोण्याः । (१-२-५०) गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः । १७०४ तस्य निमित्तं संयोगोत्पातौ । ( ५-१-३८ ) संयोगः संबन्धः । उत्पातः शुभाशुभसूचकः । शतिकः शत्यो वा धनपतिसंयोगः । शत्यं शतिकं वा दक्षिणाक्षिस्पन्दनम्, शतस्य निमित्तमित्यर्थः। ‘वातपित्तश्लेष्मभ्यः शमनको पनयोरुपसंख्यानम् ' ( वा ३०३३ ) | वातस्य शमनं कोपनं वा वातिकस् । पैत्तिकम् । श्लैष्मिकम् । 'संनिपाताच्चेति वक्तव्यम्' (वा ३०३७ ) सान्निपातिकम् । १७०५ गोद्यवोऽसंख्यापरिमाणाश्वादेर्यत् । (५-१-३६) गोर्निमित्तं संयोग उत्पातो वा गव्यः । द्व्यचःइति पर्युदासाट्ठगभावे ठञिति भावः । ठगिति । उदाह्रियत इति शेषः । नैष्किकमिति । निष्केण क्रीतमित्यर्थः । 'समासे निष्कादिभ्यः' इति ठगिति भावः । इगोण्याः । लुकोऽपवाद इति । 'लुक्तद्धितलुकि' इति प्राप्तस्येत्यर्थः । पञ्चगोगिरिति । आर्हीयस्य ठको लुकि स्त्रीप्रत्ययस्य इकारः । नच उपसर्जनह्रस्वत्वेनैव इदं सिद्धमिति वाच्यम्, इत्त्वविध्यभावे 'लुक्तद्धितलुकि' इति ङीषो निवृ तावदन्तत्वात् टापि पञ्चगोणेत्यापत्तेः । मूलद्रव्यवाचिन एवं तृतीयान्तात्क्रीतार्थे प्रत्यया भवन्ति, नतु देवदत्तेन क्रीतमित्यर्थे, अनभिधानादिति भाष्ये स्पष्टम् । तस्य निमित्तम् । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे यथाविहितं षष्ठ्यन्तात् ठञादयः स्वरित्यर्थः । शत्यः शतिको वेति । शतस्य निमित्तमित्यर्थः । 'शताच -' इति यट्ठनौ धनपतिसंयोग इति । याजनशुश्रूषादिसंपर्क इत्यर्थः । उत्पाते उदाहरति-शत्यं शतिकं वा दक्षिणा क्षिस्पन्दनमिति । शतस्य निमित्तमित्यर्थः । सूचकत्वमेवात्र निमित्तत्वमिति भावः । उपसंख्यानमिति । आयस्य ठक इति शेषः । कोपनं वृद्धिः । संनिपाताच्चेति । 'तस्य निमित्तं संयोगोत्पात' इत्यर्थे ठगिति शेषः । सांनिपातिकमिति । संनिपातो वातपित्तश्लेष्मणां दोषाणां संकर इति वैद्य के प्रसिद्धः । तस्य निमित्तं नपातिकम्, ज्वरप्रकोपादौ पथ्यभक्षादिसंयोगः संनिपातसूचकं जिह्वाकातवादि च । गोद्यचः । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे गोशब्दाद् व्यचश्च षष्ठ्यन्ताद् यत्प्रत्ययः स्यात् नतु सङ्ख्यायाः परिमाणाद् अश्वादेश्चेत्यर्थः । ठकोभवतीत्यर्थः । ननु देवदत्तेन क्रीतं पाणिना क्रीतं संतोषेण क्रीतमित्यादावतिप्रसङ्ग इति चेत् । अत्राहुः — करणे तृतीयैवेह समर्थविभक्तिः, सापि मूल्यद्रव्यसमर्पकाच्छन्दादुत्पन्ना, न त्वन्यापि, अन्यत्र त्वनभिधानान्न प्रत्ययः । एतच 'तद्धिताः' इति महा ज्ञाकरणाल्लभ्यते, तेभ्यः प्रयोगेभ्यो हितास्तद्धिता इति व्याख्यानादिति । लुको अपवाद इति । 'लुक्तद्धितलुकि' इति प्राप्तस्य स्त्रीप्रत्ययस्य लुकोऽपवाद इत्यर्थः ।
1