________________
प्रकरणम् ३३] बालमनोरमा तत्त्वबोधिनीसहिता। [४६६ णम्, द्विशाण्यम् , द्विशाणम् । इह ठादयत्रयोदश प्रत्यपाः प्रकृतास्तेषां समर्थविभक्रयोऽर्थाश्चाकाक्षितास्त इदानीमुच्यन्ते । १७०२ तेन क्रीतम् । (५-१-३७) ठन् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । वक्ष्यन् विशेषमाह-द्वित्रिपूर्वादण् च । वार्तिकमिदम् । चाद्यदिति । पाक्षिको यत् , चकारेण समुच्चीयत इत्यर्थः । ततश्च यतोऽमावे ठअपि लभ्यते । तदाहतेन त्रैरूप्यमिति । अणा यता ठञा चेत्यर्थः । अणि 'परिमाणान्तस्य-' इत्युत्तरपदवृद्धिमाशङ्कयाह-परिमाणान्तस्येति । ठादयस्त्रयोदशेति। प्राग्वते:-' इति ठञ् , 'आत्-ि ' इति ठक्, 'शताच-' इति ठन्यतौ, 'संज्ञयाः-' इति कन् , 'विंशतित्रिशद्याम्-' इति ड्वुन् , 'कंसात्-' इति टिठन् , 'शूपत्-ि ' इत्यञ्, 'शतमान-' इत्यण, 'विंशतिकात्खः' इति खः, 'खार्याः-' इति ईर्कन् , 'पणपाद-' इति यत् , 'द्वित्रि-' इति वार्तिकोक्ताण, इत्येवं त्रयोदशेत्यर्थः । प्रकृता इति । प्रक्रान्ता इत्यर्थः । समर्थविभनय इति । 'समर्थानां प्रथमाद्वा' इति सूत्रलभ्यसमर्थविशेषणीभूतप्रथमो चारिततत्तद्विभक्तय इत्यर्थः । तेन क्रीतम् । अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं ठादयः स्युरित्यर्थः । ठमिति । उदाह्रियत इति शेषः । गोपुच्छेन क्रीतं गौपुच्छिकमिति । 'अगोपुच्छ' इति पर्युदासाठगभावे औत्सर्गिकष्ठमिति भावः । साप्ततिकमिति । सप्तत्या क्रीतमित्यर्थः । 'अगोपुच्छसङ्ख्या-' इति पर्युदासाठगभावे ठमिति भावः । प्रास्थिकमिति । प्रस्थेन क्रीतमित्या : । 'अगोपुच्छसङ्ख्यापरिमाणात्' तदा संगच्छते, नान्यथेत्यास्तां तावत् । त्रैरूप्यमिति । तदेतद्दर्शयति-द्वैशाणमित्यादिना । अण्येकम् , ठो लुकि द्वितीयम् , यति तृतीयम् । ठञादयस्त्रयोदशेति । ननु एकादशैव प्रत्ययाः प्रकृताः, सूत्रभेदेन विहितत्वात् । यत्प्रत्ययस्य द्विर्गणने तु द्वादश, इति त्रयोदशेत्येतद् दुरुपपादमेव । न च 'शूर्पादअन्यतरस्याम्' इत्यन्यतरस्यांप्रहणलभ्यठअमादाय त्रयोदशत्वं सूपपादमिति वाच्यम् , तुल्यन्यायेन 'शाणाद्वा' इति सूत्रलभ्यय?जोर्ग्रहणेन पञ्चदशत्वप्रसङ्गात् । नापि सूत्रोपात्तैदिशभिः सह 'द्वित्रिपूर्वादया च' इति वार्तिकोपात्तारप्रत्ययस्य गणनेन निर्वाहः । उक्तरीत्या 'कंसाठिन्' इति सूत्रे 'अर्धाच्चेति वक्तव्यम्', 'कार्षापणाठिन् वक्तव्यः' इत्यादिवार्तिकोलटिठन्प्रत्ययस्यापि ग्रहणप्रसङ्गादिति चेत् । अत्राहुः-'कंसाटिठन्' इति सूत्रस्थ एव टिठन् अर्धकार्षापणशब्दाभ्यां परामृष्ट इति स न भिद्यते। 'द्वित्रिपूर्वादण च' इति वार्तिकस्थोऽणा तु भिद्यते, 'शतमानविंशतिक-' इत्यणो दूरस्थत्वेन परामर्दुमशक्यत्वादिति । तेन क्रीतम । तेनेति तृतीयान्तात्क्रीतार्थे यथाविहितं प्रत्ययाः स्युः । ठअिति। 'आत्-ि ' इति सूत्रे 'अगोपुच्छ-' इत्यादिपर्युदासाटुगभावे गोपुच्छसप्ततिप्रस्थेभ्यष्ठम्