________________
४६८]
सिद्धान्तकौमुदी। तद्धितेष्वाीयमध्यर्धपाद्यम् । द्विपाथम् । इह 'पादः पत्' (सू ४१४ ) इति न । 'यस्य-' (सू ३११) इति लोपस्य स्थानिवद्भावात् । 'पद्यत्यतदर्थे' (स १६1) इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् । १७०० शाणाद्वा । (५-१-३५) यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम् , अध्यर्धशाणम् । १७०१ द्वित्रिपूर्वादरच । (५-१-३६) 'शाणात्' इत्येव । चाद्यत् तेन त्रैरूप्यम् । 'परिमाणान्तस्यासंज्ञाशाणयोः' (सू १६८३) इति पर्युदासाद दिवृद्धिरेव । वैशापण्यम् । द्विपण्यमिति । अध्यर्धपणेन क्रीतमित्यर्थः । द्विपाद्यमिति । द्वाभ्यां पादाभ्यां चतुर्थांशाभ्यां क्रीतमिति विग्रहः । यति 'यस्येति च' इत्यकारलोपः। स्थानिवद्भावादिति। 'अचः परस्मिन्-' इत्यनेनेति भावः। प्राण्यङ्गार्थस्येति । व्याख्यानादिति भावः । इह सूत्रे पणमाषसाहचर्यात् पादशब्दोऽपि परिमाणविशेषवाची गृह्यते । शाणाद्वा । पक्षे ठभिति । 'आर्हात्' इति ठग्विधौ परिमाणपर्युदासाठ्ठजिति भावः । तस्य लगिति । ठञ इति भावः । अत्र 'अध्यधपूर्वात्' इति 'द्विगोः' इति चानुवर्तत इत्यभिप्रेत्य अध्यर्धपूर्वादुदाहरति-अध्यर्धशाण्यम् , अध्यर्धशाणमिति । यति ठो लुकि च रूपम् । अथ शाणान्तद्विगोरुदाहरणं न सिध्यतीति भावः । प्राण्यङ्गार्थस्यैवेति । अयं भावः- पादस्य पदाज्यातिगोपहतेषु' इस्त्र प्राण्यङ्गस्यैव हि पादस्य ग्रहणम् , तस्यैवाज्यातिनिर्गतिवचनैः संबन्धसंभवात् । तथा च 'पद्यति-' इत्यादावपि तस्यैवानुवृत्तिः । इह तु पणमाषाभ्यां साहचर्यास्परिमाणवाचिनो ग्रहणमिति । पक्षे ठअिति । यद पि शाण उन्मानम् , तथापि 'आत्-ि ' इति सूत्रे परिमाणग्रहणेन परिमीयते परिच्छिदातेऽनेनेति योगवृत्त्या परिच्छेदकमात्रं गृह्यत इति वादिनां मते अस्यापि पर्युदासाट्ठग नावे ठनिति भावः । मुख्यमते तु ठगेव बोध्यः । 'शाणाद्वा' इति सूत्रे शताच्चेति वक्तव्यम्' पूर्वेण नित्यं प्राप्ते विकल्पार्थम् । एवं च पूर्वसूत्रे शतग्रहणमकृत्वा शतशाणाभ्यां वेत्येव वक्तुंयुक्तमित्याहुः अध्यर्धशत्यम् , अध्यर्धशतम् । पञ्चशत्यम् , पञ्चशतम् । यद नावे संख्यालक्षणस्य कनो लुक् । 'शताच ठन्यतौ-' इति तु न प्रवर्तते, तत्रासमास पहणस्यानुवर्तनात् । द्वित्रिपूर्वादण च । वार्तिकमिदं वृत्तिकृता सूत्रेषु प्रक्षिप्तम् । भा यादिप्रामाण्याच्छतप्रहणमिह न सम्बध्यत इत्याशयेनाह-शाणावित्येवेति । न्यासकृता त्वरिवधायके वार्तिके सूत्रत्वभ्रमेण व्याख्यातम्-शतशाणाभ्यां वा' इति सूत्रयितव्ये 'पणपाद-' इति पूर्वसूत्रे शतग्रहणं क्रियते तस्येदं फलम्, शतशब्दः खरि तत्वेनानुवर्तमानोऽपि 'शाणाद्वा' इत्यत्रैव सम्बध्यते, तदुत्तरसूत्रे 'द्वित्रिपूर्वादण च' इत्यत्र तु न सम्बध्यते, तेन शतशब्दादण न-इति । तदिदं सामर्थ्यवर्णनमरिवधायकं यदि सूत्रं स्यात्