________________
प्रकरणम् ३३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६७ द्विनैष्किकम् । त्रिनिष्कम् , त्रिनष्किकम् । 'बहुपूर्वाचति घनव्यम्' (वा ३०२४) बहुनिष्कम् , बहुनैष्किकम् । १६६६ बिस्ताश्च । (५-१-३१) द्वित्रिबहुपूर्वाद्विस्तादाीयस्य लुग्वा स्यात् । द्विबिस्तम्, द्विबैतिकम् इत्यादि । १६६७ विशतिकात्खः। (५-१-३२) अभ्यर्धपूर्वाद् द्विगोरिस्येव । अध्यर्धर्विशतिकीनम् । द्विविंशतिकीनम् । १६९८ खार्या ईकन् । (५-१-३३) मध्यर्धखारीकम् । द्विखारीकम् । 'केवलायाश्चेति वक्रव्यम्' (वा ३०२५)। खारीकम् । १६६६ पणपादमाषशताद्यत् । (५-१-३४) अध्यर्धपण्यम् । द्विपण्यम् । यस्य लुग्वेति शेषः । द्विबिस्तं द्विबैस्तिकमिति । द्वाभ्यां विस्ताभ्यां क्रीतमिति विग्रहः । ठत्रः पाक्षिको लुक् । इत्यादीति । बहुविस्तं बहुबैस्तिकमित्युदाहार्यम् । 'बहुपूर्वाच' इति वार्तिकस्य अत्राप्यनुवृत्तेः भाष्ये उक्तत्वात् । विंशतिकात्खः । अध्यर्धपूर्वाद द्विगोरित्येवेति । पूर्वसूत्रयोरध्यर्धपूर्वादित्यस्यासंभवाद् द्विगोरित्यस्य प्रयोजनाभावादननुवृत्तावपि इह तदनुवर्तत इति भावः । अध्यर्धविशतिकीनमिति । अध्यर्धविंशत्या क्रीतमध्यर्धविंशतिकम् । 'विंशतित्रिंशद्भयाम्' इति योगविभागात् कन् । अध्यर्धविंशतिकेन क्रीतमिति विग्रहः । द्विविंशतिकीनमिति । द्वाभ्यां विंशतिकाभ्यां क्रीतमिति विग्रहः । खार्या ईकन् । 'अध्यर्धपूर्वात्' इति 'द्विगोः इति चानुवर्तत इत्यभिप्रेत्यो. दाहरति-अध्यर्धखारीकम् , द्विखारीकमिति । तदस्य परिमाणम्' इति ठमि तस्य च लुकि प्राप्ते ईकन् । केवलायाश्चेति । खार्या इति शेषः । पणपाद । 'अध्यर्धपूर्वात्' इति 'द्विगोः' इति चानुवर्तत इत्यभिप्रेत्योदाहरति-अध्यर्घसिद्धे पूर्वग्रहणं चिन्त्यप्रयोजनमिति हरदत्तः । द्विनैष्किकमिति । 'प्राग्वतेष्ठञ्' मतान्तरे तु ठगिति मनोरमायाम् । 'निष्कादिभ्यः समासे ठगभावात् परिच्छेदकमात्रं गृह्यते' इति मतान्तरेऽपि ठमेव भवति, तन्मते उन्मानस्यापि परिमाणत्वाद् 'अगोपुच्छ-' इत्यादिना पर्युदस्तत्वाट्टगभावे निष्कादिभ्यष्ठमि प्राप्ते असमासे ठग्विधानेऽपि समासे ठन एव प्राप्तत्वादित्यन्ये । 'परिमाणान्तस्य-' इत्युत्तरपदद्धिः । 'द्विगोः' इति सम्बन्धानेह लुक् । द्वयोनिष्को द्विनिष्कस्तेन क्रीतं द्विनैष्किकम्। 'अध्यर्धपूर्व-'इत्यसम्बन्धादध्यर्धनैष्किकमित्यत्राप्यनेन लुङ् न भवति । बिस्ताश्च । चकारेण 'द्वित्रिपूर्वात्-' इत्यत्र पूर्वादित्यनुकृष्यते, तत्फलं तु 'चानुकृष्टं नोत्तरत्र' इत्युत्तरत्रानुवृत्त्यभावः । विशतिकात्खः। 'शतमानविंशतिक-'इत्पणि प्राप्ते तस्य च लुकि प्राप्ते खोऽत्र विधी. यते खार्याः। तदस्य परिमाणम्' इति ठमि प्राप्ते तस्य च लुकि प्राप्ते इकन् विधीयते। कन्विधी 'केऽणः' इति हव: स्यात् । इकन्विधावपि 'यस्येति च इति लोपादिलं