________________
४६६] सिद्धान्तकौमुदी। [तद्धितेष्वाहीय. तु पाञ्चकलापिकम् । १६६४ विभाषा कार्षापणसहस्राभ्याम् । (५-१-२६) लुग्वा स्यात् । अध्यर्धकार्षापणम्, अध्यर्धकार्षापणिकम् । द्विकार्षापणम् , द्विकार्षापणिकम् । औपसङ्ख्यानिकस्य टिठनो लुक् । पक्षे अध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम् , अध्यर्धसाहनम् । द्विसहस्रम्, द्विसाहस्रम् । १६६५ द्वित्रिपूर्वानिष्कात् । (५-१-३०) लुग्वा स्यात् । द्विनिष्कम् , नेति ज्ञापनार्थत्वात् । पाञ्चकलापिकमिति । पा कलापाः परिमाणमस्येति विग्रहे 'तद्धितार्थ' इति द्विगुः । 'तदस्य' इति तञ् । संख्यासंज्ञा. सूत्रभाष्ये तु अध्यर्धपूर्वात्' इति पाठो दृश्यते । नच द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् , तेन क्रीतं द्विशौपिकमिति पूर्वोक्तोदाहरणे ठओ लुक् स्यादिति वाच्यम् , द्विगुनिमित्तस्याहीयस्य लुगिति व्याख्यानादित्यलम् । विभाषा । लुग्वेति ।
आहीयस्येति शेषः । औपसंख्यानिकस्येति । 'कार्षापणाट्टिठन् वक्तव्यः' इत्युक्तस्येत्यर्थः । अध्यर्धप्रतिकमिति । प्रत्यादेशस्य टिठन्संनियोगशिष्टत्वात् प्रत्यादेशपक्षे टिठनो न लुगिति भावः । अध्यर्धसहस्रमिति । 'शतमान-' इति विहितस्याणो लुक् । लुगभावे तु 'सङ्ख्यायाः संवत्सरस् ख्यस्य च' इत्युत्तरपदवृद्धिः । द्वित्रिपूर्वानिष्कात् । लुग्वा स्यादिति । पार्टीयस्येति शेषः । द्विनिष्कमिति । ठो लुक् , समासाठ्ठकोऽसंभवात् । बिस्ताच्च । आ-- इति । पाञ्चकलापिकमिति । पञ्च कलापाः परिमाणमस्येति विग्रहे 'तद्धितार्थ-' इति समासः । तदस्य परिमाणम्' इति ठञ् । एवं पञ्चलोहितिकमपि बोध्यम् । पञ्च लोहिन्यो गुञ्जाः परिमाणमस्येति विग्रहे पूर्ववत्समासतद्धितौ । 'भस्याढे तद्धिते' इति पुंवद्भावाल्लोहिनीशब्दस्कारनकारयोरभावः । परिमाणविशेष-य नामधेये एते । असंज्ञाग्रहणं प्रत्ययान्तस्य विशेषणम् , न तु द्विगोः । एतच्च वृत्तिकृता सूत्राशयमनुरुध्य वर्णितमिति इहापि तथैवोक्तम् । भाष्यवार्तिकयोस्त्वसंज्ञाग्रहणं त्याख्यातम् । तथा हि-द्विगुविशेषणमसंज्ञाग्रहणम् । पञ्चकलापपञ्चलोहितशब्दौ ६ द्विगू कृततद्धितलुकावेव संज्ञे । यस्तु ताभ्यामुत्पद्यते ठन् स श्रूयते इति द्विगो निमित्तत्वेन तस्य लुगभावादिति । विभाषा। टिठनो लुगिति । प्रत्यादेशपक्षे तु लुङ न भवति, प्रत्यादेशस्य प्रत्ययसंनियोगशिष्टत्वादिति बोध्यम् । अध्यर्धसहस्रामेति । 'शतमान. विंशतिक-' इति विहितस्याणो लुक् । तदभावपक्षे तु 'संख्यायाः संवत्सरसंख्यस्य च' इत्युत्तरपदवृद्धिः । अध्यर्धशब्दः संख्यावाचीत्यधुनैवोत्तत्वात् । द्वित्रिपूर्वात् । अध्यर्धग्रहणमुत्तरार्थमनुवृत्तमपीह न संबध्यते । 'द्विगोः' इति तु स्'बध्यत एव षष्ठीसमासं व्यावर्तयितुम् । अत्र च व्याख्यानमेव शरणम् । 'द्वित्रिभ्यां विष्कात्' इत्येव