________________
प्रकरणम् ३३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६५ मध्यर्धपूर्वाद् द्विगोत्र परस्याीयस्य लुक्स्यात् । अध्यर्धकसम् । द्विकंसम् । संज्ञायां समाहारद्वन्द्वात्पञ्चमी । सौत्रं पुंस्त्वम् , तदाह-अध्यर्धपूर्वाद् द्विगोश्चेति । आीयस्येति । प्रत्यासत्तिलभ्यम् । अध्यर्धकसमिति । अध्यारुढमध यस्मिन् तद् अध्यर्धम् । 'प्रादिभ्यो धातुजस्य-' इति बहुव्रीही पूर्वखण्डे उत्तरपदलोपः। सार्धमित्यर्थः । अध्यर्धन कसेन क्रीतमिति विग्रहः । तद्धितार्थे द्विगुः । 'संख्याया अतिशदन्तायाः-' इति कन् । तस्यानेन लुगिति भावः । द्विकंसमिति । द्वाभ्यां कंसाभ्यां क्रीतमिति विग्रहः । ठको लुक् । नच अध्यर्धकंसमित्यत्रापि द्विगुत्वादेव सिद्धमिति वाच्यम्, किञ्चित्सङ्ख्याकार्यं कृत्वसुजादिकमध्यर्धशब्दस्य यस्मिन् तदध्यर्धम् 'प्रादिभ्यो धातुजस्य-' इत्युत्तरपदलोपः । अध्यर्धशब्दः पूर्वो यस्मिन्निति बहुव्रीहिगर्भबहुव्रीहौ कृते अध्यर्धपूर्व च द्विगुश्चेति द्वन्द्वः । सौत्रं पुंस्त्वम् । द्विगोरिति पञ्चमी न तु षष्ठीत्याशयेन व्याचष्टे-अध्यर्धपूर्वादित्यादि । एतच्च वृत्तिकाररीत्या व्याख्यातम् । अत्र वार्तिकं 'द्विगो कि तन्निमित्तग्रहणम्'। द्विगोर्निमित्तं यस्तद्धितस्तस्य लुगिति वक्तव्यम् । द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पण क्रीतं द्विशौर्पिकमिति । पूर्वोक्तोदाहरणे तु ठओ लुङ् माभूदिति । ननु द्वयोः शूर्पयोः समाहारो द्विशूपी तया क्रीतमिति विग्रहे द्विशूर्पमिति रूपं न स्यात् । तद्धितस्यात्र द्विगोरनिमित्ततया 'अध्यध-' इति लुकोऽप्रवृत्तेः । द्विगोः परस्येति व्याख्यायां तु नः सिद्धमिष्टमिति चेत् । मैवम् , 'अर्थविशेषासम्प्रत्यये अतन्निमित्तादपि' इति वचनान्तरस्य वार्तिककृतैवोक्तत्वात् । यत्र तद्धिताथै द्विगुना सहार्थो न भिद्यते तत्र स तद्धितो यस्य निमित्तं न भवति तस्मादपि द्विगोः परस्य लुगिति वक्तव्यमिति तस्यार्थः । एवं च द्विशर्पमिति तद्धितार्थद्विगुना सह द्विशूा क्रीतमित्यस्यार्थो न भिद्यत इति समाहाराद् द्विगोः परस्य तद्धितस्य लुग् भवत्येवेति न काप्यनुपपत्तिः । वस्तुतस्तु सूत्रे द्विगोरिति षष्ठीमाश्रित्य 'द्विगोनिमित्तं यस्तद्धितः' इति व्याख्याय प्रथमं वार्तिकं प्रत्याख्यातुं शक्यम् । 'द्विशूर्ध्या क्रीतम्' इति विग्रहे तु द्विशुपादेव प्रत्ययो भवति अजाविकन्यायात्, न तु द्विशूशिब्दाद् इत्याश्रित्य द्वितीयमपि प्रत्याख्यातुं शक्यम् । नन्वध्यर्धशब्दः संख्यावाच्येव । तथा च लोके गण्यते 'एकोऽध्य? द्वौ' इति । अत एव अध्यर्धकमिति कन् , अध्यर्धकंसमिति तद्धितार्थे द्विगुः, अध्यर्धसांवत्सरिकमित्यादौ 'संख्यायाः संवत्सरसंख्यस्य च' इत्युत्तरपदवृद्धिश्च भवति, तत्किमध्यपूर्वप्रहणेनेति चेत् । अत्राहुः-'संख्याकार्यमेतस्य किंचिन्न' इति ज्ञापनार्थमिदम् । तेन कन् द्विगुसमासवृद्धिभ्योऽन्यत्र भवति । तदाथा-अध्यधं करोति । नेह कृत्वसुच् । यः सकृत्फलोपेतां क्रियामभिनिवर्त्य पुनस्तामेव कुर्वन् मध्ये निवर्तते स एवमुच्यते