________________
४६४ ] सिद्धान्तकौमुदी। तद्धितेष्वा यः कनोऽपवादः । विंशकः । त्रिंशकः । संज्ञायां तु विंशतिकः । शिरकः । १६६० कंसाठिन् । (५-१-२५) टो डीबर्थः, इकार उच्चारणार्थः । कंसिकः, कंसिकी । 'अर्धाञ्चेति वक्तव्यम्' ( वा ३०१८) । अधिका, श्रधिकी । 'कार्षापणाटिठन्वक्तव्यः प्रतिरादेशश्च वा' (वा ३०१६) कार्षापणिकः, कार्षापणिकी। प्रतिकः, प्रतिकी। १६६१ शूर्पादान्यतरस्याम् । (५-१-२६) शौर्पम्, शौर्पिकम् । १६६२ शतमानविंशतिकसहस्रवसनादण । (५-१-२७) एभ्योऽएस्यात् । ठठक्कनामपवादः । शतमानेन झीतं शावमानम् । वैशतिकम् । साहस्रम् । वासनम् । १६६३ अध्यर्धपूर्वद्विगोलुंगसंज्ञाया । (५-१-२८) विंशतित्रिंशद्भयाम् इत्यनुवृत्तिमभिप्रेत्याह-असंज्ञायामिति । आभ्यामिति शेषः । विंशक इति । विंशत्या क्रीत इत्यर्थः । ड्वुन् अकादेशः । 'तिविंशतेर्डिति' इति तिशब्दस्य लोपः । त्रिंशक इति । ड्वुन् , अकादेशः, ':' इति टिलोपः । आद्यसूत्रं परिशेषात् संज्ञायामित्यभिप्रेत्याह-संज्ञायां विति । कंसात् । इत्यादि स्पष्टम् । शूर्पादञ् । आहीयेष्वर्थेष्विति शेषः । शूर्पशन दस्य परिमाणवा. चित्वात् ठनि प्राप्ते तदपवादोऽञ् पक्षे विधीयते । पत्ते ठञ् । शातमान । शातमानमिति । अत्र ठञ् प्राप्तः । वैशतिकमिति । विंशत्या *तं विंशतिकम् । संज्ञाशब्दोऽयम् । 'विंशतित्रिंशद्भयाम्' इति योगविभागात् वन् । विंशतिकेन क्रीतमिति विग्रहः । तत्र परिमाणविशेषस्य संज्ञा चेट्ठञ् त्रामः, अन्यस्य संज्ञा चेक् प्राप्तः । साहस्रमिति । सहस्रेण क्रीतमिति विग्रहः । 'संख्याया अतिशदन्तायाः-' इति कन् प्राप्तः। वासनमिति । वसनेन कीतमि ते विग्रहः । अत्र ठक् प्राप्तः । अध्यर्धपूर्व । अध्यर्धशब्दः पूर्वो यस्य सः अध्यर्धपूः, सच द्विगुश्चेति पर्युदासाद्विंशतित्रिंशयां कन् दुर्लभ इति भावः। विशक इति 'ति विंशतेर्डिति' इति तिशब्दस्य लोपः । अधिक इति । अर्धशब्दस्य कार्षापागार्धे रूढत्वाद्भागवदपेक्षयाऽत्रासामर्थ्य नाशङ्कयम् । प्रकरणादिवशेन भागविशेषे विज्ञाते सति नास्त्यस्यासामर्थ्यमिति बोध्यम् । एतेनार्धशब्दस्य सापेक्षत्वात्तदन्तादेव टिठन् , द्रोणार्धिकः, प्रस्थाधिक इति केषांचिदुक्तिः परास्ता । शूर्पादन । शूर्पशब्दस्य पी माणवाचित्वात्रि प्राप्ते तदपवादत्वेनान् पक्षे विधीयते । ठञ्ठकनामिति । शतमानं परिमाणं ततष्ठञ् प्राप्तः, विंशत्या क्रीतं विंशतिकम् । संज्ञाशब्दोऽयम् । असंज्ञायां हि विंशतित्रिंशयाम्-' इति ड्वुन् स्यात्। संज्ञा च यदि परिमाणस्य तदा ठञ् सः,अर्थान्तरस्य चेत्तर्हि ठक् प्राप्तः । वसनशब्दात्तु ठगेव । सहस्रशब्दस्य र ख्यावाचित्वात्ततः 'संख्याया अतिशदन्तायाः-' इति कन्प्राप्त इति विवेकः । अध्यर्धर्व । अध्यारूढमध