SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ३३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६३ कन् । (५-१-२२) संख्यायाः कन्स्वादाहीयेऽर्थे, न तु त्यन्तशदन्तायाः । पञ्चभिः क्रीतः पञ्चकः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः चात्वारिंशस्कः । १६८८ वतोरिवा। (५-१-२३) वस्वन्तास्कन इड् वा स्यात् । तावतिकः, तावस्कः।१६८४ विशतित्रिंशद्धयां खुन्नसंज्ञायाम्। (५-१-२४) योगविभागः कर्तव्यः । श्राभ्यां कन्स्यात् । असंज्ञायां वुन् स्यात् । तदनुकर्षणार्थत्वादिति भावः । द्विशतेनेति । द्विगुणशतेनेत्यर्थः । द्विगुसमासे तु विशतशब्दस्य लुगन्ततया लुकि तदन्तविधिनिषेधात् प्राप्तिरेव नेति बोध्यम् । संख्यायाः । तिश्च शञ्च तिशतो, तो अन्ते यस्याः सा तिशदन्ता, न . तिशदन्ता अतिशदन्ता, द्वन्द्वगर्भबहुव्रीहिगर्भो नस्तत्पुरुषः। साप्ततिक इति । सप्तत्या क्रीत इत्यर्थः । 'तेन क्रीतम्' इति ठञ् । चात्वारिंशत्क इति । चत्वारिंशता क्रीतमित्यर्थः । 'सेन क्रीतम्' इति ठमष्ठस्य तकारात्परत्वात्कः । वतोरिड् वा। वतोरियनेन प्रत्ययग्रहणपरिभाषया तदन्तं गृह्यते । कनिति प्रथमान्तमनुवृत्तम् । 'वतोः' इति पञ्चमी 'तस्मादित्युत्तरस्य' इति परिभाषया षष्ठयन्तं प्रकल्पयति । तदाह-वत्वन्तादिति । तावतिक इति । तावता क्रीत इत्यर्थः । 'यत्तदेतेभ्य:-' इति वतुप् । 'बहुगणवतु-' इति संख्यासंज्ञायां 'संख्याया अतिशदन्ताया:-' इति कन् , तस्य इट् , टित्त्वादाद्यवयवः । विंशतित्रिंशद्यां ड्खुन्नसंज्ञायाम् । नन्वेकसूत्रत्वे विंशतित्रिंशद्भयां ड्नेव स्यात् , कन् तु न स्यात् । अतिशदन्ताया इति निषेधादित्यत श्राह-योगेति । 'विंशतित्रिंशद्भयाम्' इत्येकं सूत्रम् , 'ड्वुनसंज्ञायाम्' इत्यपरमित्यर्थः । श्राद्यं व्याचष्टे-आभ्यां कन् स्यादिति । 'संख्याया अतिशदन्तायाः' इत्यतः कन् इत्यनुवर्तत इति भावः । द्वितीयसूत्रे इत्यस्यानुकर्षणार्थः । द्विशतकमिति । द्वौ च शतं च तेषां समाहारो द्विशतम् । ततः कन्-'प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि' इत्यनया इष्टया समासादपि प्राप्नोतीति 'असमासे' इत्येतस्यानयनभुचितमिति भावः । त्यन्तशदन्ताया इति । त्यन्तसहिता शदन्तेत्युत्तरपदलोपी समासः । पञ्चक इति । लौकिक्याः संख्याया उदाहरणम् । बहुक इति । तु पारिभाषिक्याः । साप्ततिक इति । ठमो मित्त्वादादिवृद्धिः । ठस्येकादेशे 'यस्येति च' इतीकारलोपः । अर्थवतस्तिशब्दस्य प्रहणाद् डत्यवयवस्य तिशब्दस्य पर्युदासो न भवति, कतिकः । चात्वारिंशत्क इति । 'इसुसुक्लान्तात्कः' । वतोरिड्वा । 'वतोः' इति पञ्चमी, सा च 'कन्' इति प्रथमायाः षष्ठी कल्पयतीत्याह-वत्वन्तात्कन इति । तावतिक इति । 'यत्तदेतेभ्यः-' इति वतुप् । 'आ सर्वनाम्नः' इत्यात्वम् । कर्तव्य इति । अन्यथा त्यन्तशदन्तयोः
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy