________________
४६२]
सिद्धान्तकौमुदी। तद्धितेष्वाीय(७-३-२७) अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदा तु वा जिदादौ अर्धप्रस्थिकम् , प्रार्धप्रस्थिकम् । 'अतः' किम्-श्रार्धकौडविकम् । 'तपरः' किम्अर्धखायाँ भवा अर्धखारी। अर्धखारीभार्य इत्यत्र 'वृद्धिनिमित्त स्य-' (सू ८४०) इति पुंवद्भावनिषेधो न स्यात् । १६८६ शताच ठन्यतावश । (५-१-२१) शतेन क्रीतं शतिकम् , शत्यम् । 'शते' किम्-शतं परिमाणमस्य शतकः सङ्घः । इह प्रत्ययार्थी वस्तुतः प्रकृत्यर्थाथ भिधते, तेन ठन्यतौ न, किंतु कनेव । 'श्रसमासे' इत्येव, द्विशतेन क्रीतं द्विशतकम् । १६८७ संख्याया अतिशदन्तायाः ठक् । किंतु ठमेव । नातः परस्य परिमाणाकारस्येति । परिमाणवाचकावयवस्य अकारस्येत्यर्थः । पूर्वपदस्य तु वेति । पूर्वपदस्यादेरन ।स्तु वृद्धिर्वेत्यर्थः ।
आर्धकौडविकमिति । अर्धकुडवेन क्रौतमित्यर्थः । तेन तम्' इति ठञ् । अत्र कुडवशब्दस्य परिमाणविशेषवाचिन आदेरचः अकारत्वाभावान वृद्धिनिषेधः । किन्तु 'अर्धात्परिमाणस्य-' इत्युत्तरपदवृद्धिरिति भावः । तारः किमिति । दीर्घस्याकारस्य वृद्धिनिषेधे फलाभावाद्धस्वस्येति सिद्धमिति प्राः । अर्धखार्यां भवा अर्धखारीति । निषेधो न स्यादिति । पूर्वपदस्य द्वयभावपक्षे वृद्धि प्रति फलोपहितनिमित्तत्वाभावादिति भावः । पूर्वपदस्य वृद्धिपत्रे तु वृद्धि प्रति फलोपहितनिमित्तत्वसत्त्वात् स्यादेव उत्तरपदाकारस्य वृद्धिनिषेधेका पुंवत्त्वनिषेधः । परिमाणान्तस्येत्यारभ्य एतदन्तं साप्तमिकम् । अथ प्रकृतं पाश्चा मेकम् । शताच ठन्यतावशते । आहीयेष्वर्थेषु शताट्ठन्यतौ स्तः, नतु शतेऽर्थे इत्यर्थः । उत्तरसूत्रप्राप्तकनोऽपवादः । शतकः संघ इति । उत्तरसूत्रेण कन्निति भावः । नन्विह संघस्यैव प्रत्ययार्थत्वात् कथम् 'प्रशते' इति निषेध इत्यल आह-इहति । प्रत्ययार्थः संघः प्रकृत्यर्थात् शतात्परिमाणाद् न भिद्यते । गुणगुरिणनोरभेद एव हि पारमार्थिकः । भेदस्तु काल्पनिक एवेति भावः । यत्र तु शतं प्रत्ययाथः प्रकृत्यथोद्भिद्यते तत्र नायं निषेधः । शतेन क्रीतं शत्यं शाटकशतम् । अत्र हि निष्ट शतं प्रकृत्यर्थः । शाटकशतं तु प्रत्ययार्थः । एतत्सर्वं भाष्ये स्पष्टम् । असमास इत्येवेति । चकारस्य तपरः किमिति । दीर्घाकारस्य वृद्धौ कृतायामपि रूपे विशेषो नास्तीति प्रश्नः । निषेधो न स्यादिति। तथा च वृद्धिनिषेधाभावाय तपरकरणमावश्यकमिति भावः। इदं च पुंवद्भावनिषेधाभावापादनं पूर्वपदस्य वृद्ध्यभावपक्षे क्रियते । यदा तु पूर्वपदस्य पाक्षिकी वृद्धिः क्रियते, तदा फलोपधानवृद्धिनिमित्तं तद्धित त्युत्तरपदाकारस्य वृद्धिनिषेधेऽपि स्यादेव पुंवद्भावनिषेध इति बोध्यम् । शताञ्च । अशतेऽभिधेये आ-येष्वर्थेषु ठन्यतौ स्तः । उत्तरसूत्रेण प्राप्तस्य कनोऽपवादः । चकारः 'असमासे'