SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ३३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६१ 'संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतरिष्यते, तचालुकि-' (वा ३०१८)। पारायणिकः । द्वैपारायणिकः । 'अलुकि' इति किम्-द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूपम् । द्विशूर्पण क्रीते 'शूदम्-' (स् १६६१) मा भूत् , किं तु ठन् । द्विशीपिकम् । १६८४ अर्धात्परिमाणस्य पूर्वस्य तु वा । (७-३-२६) अर्धात्परिमाणवाचकस्योत्तरपदस्थादेरचो वृद्धिः, पूर्वपदस्य तु वा मिति णिति किति च । अर्धद्रोणेन क्रीतम् अर्धद्रौणिकम् , प्रार्धद्रौणिकम् । १६८५ नातः परस्य । 'विभाषा हविरपूपादिभ्यः' इत्यपूपान्तत्वाद्यत् । नन्वसमासग्रहणाज् ज्ञापकाद् इत ऊध्वमपि तदन्तविधिः किं न स्यात् । ततश्च परमपारायणं वर्तयतीत्यत्रापि 'पारायणतुरायणचान्द्रायणं वर्तयति' इति ठञ् स्यादित्यत आह-इत ऊर्ध्वं त्विति । वार्तिकमिदम् । नन्वेवमपि द्विशूर्पण क्रीतमित्यर्थे शूर्पशब्दान्तादपि 'शूदअन्यतरस्याम्' इति अञ् स्यादित्यत आह-तञ्चालुकीति । इत ऊर्ध्व संख्यापूर्वपदानां तदन्तग्रहणमिति यदुक्तं तत्तद्धितलुकि सति न भवतीत्यर्थः । इदमपि वार्तिकमेव । द्विशूर्पमिति । 'तद्धितार्थ-' इति द्विगुरयम् । तद्धितप्रकृतिभूतः शब्दो न लुगन्तः। अतः संख्यापूर्वपदात् शूर्पान्तादस्मात् 'शूदअन्यतरस्याम्' इति प्राप्तस्य अअष्ठलो वा 'अध्यर्ध-' इति लुक् । द्विशूर्पशब्दो लुगन्तः। ततश्च तस्मात् क्रीतेऽर्थे 'शूदञ्-' इति न भवति । लुकि सति तदन्तग्रहणाभावादि. त्यर्थः । द्विशौर्पिकमिति । 'तेन क्रीतम्' इति ठमि 'परिमाणान्तस्यासंज्ञाशाणयोः' इत्युत्तरपदवृद्धिः । अस्य ठमो लुक् तु न भवति, तस्य द्विगुनिमित्तत्वाभावात् । अर्धात्परिमाणस्य। 'परिमाणान्तस्य-' इत्यस्मादुत्तरमिदं सूत्रम्।अर्धद्रौणिकम्, आर्धद्रौणिकमिति । द्रोणशब्दस्य निष्कादित्वेऽपि असमासप्रहणान यत् । अन्नविकारत्वादेव सिद्धे 'अपूपादीनां प्रतिपदपाठसामर्थ्यात्तदन्तविधिर्नेति न्यासप्रन्थस्तूपेक्ष्यः, वृत्त्यादिग्रन्थविरोधादिति भावः । अत एव तत्सूत्रे 'अपूपादीनां केषांचित्पाठः प्रपञ्चार्थः' इत्यवोचाम । इत ऊर्ध्वमिति । ज्ञापकेन तदन्तविधी लब्धेऽपि विशेषव्यवस्थार्थमिदम् । संख्यापूर्वपदानामिति किम्, इह मा भूत-परमपारायणं वर्तयति । द्विशूर्पमिति । तद्धितार्थे द्विगुरयम् । एषा हि प्रकृति गन्ता •न भवति इति संख्यापूर्वपदादप्यस्मात् 'शूदिनन्यतरस्याम्' इति प्राप्तस्यामष्ठो वा 'अध्यर्धपूर्व-' इति लुक् । द्विशौर्पिकमिति । 'परिमाणान्तस्य-' इत्युत्तरपदवृद्धिः। ठो द्विगुं प्रति निमित्तत्वाभावाल्लुगभावः । यद्यपि 'अध्यर्ध-' इति सूत्रे द्विगोः परस्याीयस्य लुगित्येव मूले व्याख्यायते, तथापि द्विगोर्निमित्तस्येति व्याख्येयमेव । अन्यथा अत्रैव ठओ लुक् स्यात् । एतच 'अध्यर्ध-' इति सूत्रे स्फुटीकरिष्यते।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy