________________
४६० ]
सिद्धान्तकौमुदी ।
[तद्धितेष्वार्हीय
I
इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक् स्यादाहयेsaर्थेषु । नैष्किकम् । समासे तु ठञेव । १६८३ परिमाणान्तस्यासंज्ञाशाणयोः । ( ७-३-१७ ) उत्तरपदवृद्धिः स्याद् जिदादौ परमनैष्किकः । 'असंज्ञा' इति किम् - पञ्च कलापाः परिमाणमस्य पाञ्चकलाधिकम् । 'दस्य परिमाणम्' (सू १७२३ ) इति ठञ् । असमासग्रहणं ज्ञापकं भवति ' इतः प्राक्तदन्तविधिः' इति । तेन सुगव्यम् - यवापूप्यमित्यादि । इत ऊर्ध्व तु बाह्या भिन्ना एकत्वद्वित्वादीत्यर्थः । समासे । इति यावदिति । 'तेन क्रीतम्' इत्येतत्पर्यन्तमित्यर्थः । ठगिति । पूर्वसूत्रात्तदनुवृत्तेरिति भावः । आह येष्विति । 'तदर्हति' इत्येतत्पर्यन्तमनुक्रान्तेषु 'तेन क्रीतम्' इत्याद्यर्थेष्वित्यर्थः । roseमति । निष्केण क्रीतमित्यर्थः । यथायोगं क्रीतार्थान्वः । समासे तु ठञेवेति । परमनिष्कादिशब्दादित्यर्थः । परिमाणान्तस्याः संज्ञाशाणयोः । प्रादिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकार इद सूत्रम् । शेषपूरणेन त्याचष्टे - उत्तरपदवृद्धिः स्यादिति । उत्तरपदस्य आदेरचो वृद्धिः स्यादित्यर्थः । ञिदादाविति । ञिति णिति किति चेत्यर्थः । परमनैष्किक इति । परमनिष्केरा क्रीत इत्यर्थः । समासत्वागभावे औत्सर्गिकष्ठञ् । स्वरे विशेषः । ननु निष्कादिभ्य एव ठकोविधानात्तदन्तात् समासाट्ठको प्रसक्लेर समासग्रहणं व्यर्थम् । न च प्रातिपदिकग्रहणस्यापञ्चमाध्यायसमाप्तेरधिकृतत्वात्प्रातिपदिकविशेषणतया तदन्तविधौ समासादपि ठकः प्रसक्तिरस्तीति वाच्यम्, ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति इति निषेधात् । निष्कादीनां च विशिष्य गृहीतत्वेन ग्रहणवत्त्वादित्यत आह-असमा सग्रहणमिति । सुगव्यमिति । सु शोभना गौः सुगौः, 'न पूजनात्' इति निषेधाद् 'गोरतद्धितलुकि' इति न टच् । ‘उगवादिभ्यः -' इति गोशब्दान्ताद्यत् । यवापूप्यमिति । पण, पाद, माष, वाह, द्रोण, षष्टि, इति सप्त निष्कादयः । तत्र द्रोराशब्दः परिमाणवाची, षष्टिशब्दः संख्यावाची, ताभ्यां ठञि प्राप्ते वचनम् । इतरेषां तु पञ्चानामुन्मानवाचित्वेन पूर्वसूत्रेणैव ठकि सिद्धे समासप्रतिषेधार्थं वचनमित्येके । अन्ये त्वाहु:पूर्वसूत्रे परिच्छेदकमात्रं संख्याभिन्नं परिमाणशब्देन गृह्यते । तेन सर्वेभ्यष्ट प्राप्ते ठग्विधानार्थं वचनम् । न चैवं 'परिमाणं तु सर्वतः' इति भेदेन व्युत्पादनं व्यर्थमिति वाच्यम्, 'प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये' इत्यादावस्योपयोगादिति पक्षद्वयमप्येतत्पदमञ्जर्यां स्पष्टम् । अथ किमर्थम् ' असमासे' इत्युच्यते, प्रातिपदिकग्रहणे तदन्तप्रहृणाभावादेवेष्टसिद्धेरत श्रह - असमासग्रहणमिति । सुगव्यमिति । ‘उगवादिभ्यो यत्' । यवापूप्यमिति । 'विभाषा हविरापादिभ्यः' इति