________________
प्रकणरम् ३३] बालमनोरमा सत्त्वबोधिनीसहिता। [४८६ इति वर्ति वषयति । ततः प्राक्ठनधिक्रियते। १६८१ आदिगोपुच्छसङ्ख्या परिमाणाद्वक् । (५-१-१६) 'तदर्हति' (सा७२८) इत्येतदभिव्याप्य निधिकारमध्ये ठनोऽपवादष्टगधिक्रियते गोपुच्छादीन्वर्जयित्वा । १६८२ असमासे निष्कादिभ्यः । (५-१-२०) 'मात्'ि इत्येतत् 'तेन क्रीतम्' (स् १७०२) प्रत्ययाः, तत्र ठमित्युपतिष्ठत इति यावत् । आदिगोपुच्छसङ्ख्यापरिमाणादृक् । तदर्हतीति सूत्रगते अर्हतिशब्दे एकदेशानुकरणमर्हति, तश्च तद्धटितसूत्रपरम् , अाङभिव्याप्ती, व्याख्यानात् । तदाह-तदर्हतीति । इत्येतदभिव्याप्येति । इदमपि सूत्रं प्रत्ययविशेषाश्रवणे उपतिष्ठते । अत्र संख्यापरिमाणयोः पृथग्ग्रहणात्संख्या न परिमाणम् । तथा च वार्तिकम्-'ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः ॥' इति । तुलायामारोप्य द्रव्यगुरुत्वं येन परिच्छिद्यते तदुन्मानं गुजामाषनिष्कसुवर्णपलादि । येन काष्ठादिनिर्मितेन श्रायतविस्तृतोच्छ्रितेन पात्रविशेषेण व्रीत्यादि परिच्छिद्यते पात्रगतायामविस्तारोच्छायैः, तत्परिमाणं प्रस्थादि । आयामो देय येन परिच्छिद्यते तत्प्रमाणम् अरनिप्रादेशादि । संख्या तु उक्तत्रितयापेक्षया तेभ्यष्ठत्रः प्रकृतसूत्रं विनालाभात् । तथा च गौपुच्छिकः साप्तातिक इत्यादौ ठअर्थमिदं सूत्रमत्र प्रदेशे प्रारब्धमिति बोध्यम् । आदिगोपुच्छ । तदहर्तीति । इह 'तदहम्' इति सूत्रान्तर्गतमच्प्रत्ययान्तं नानुक्रियते, किं तु तिङन्तस्यैकदेशः शबन्त एव, व्याख्यानादिति भावः । अभिव्याप्येति । तेन श्वेतच्छत्रिक इत्यत्राहत्यर्थे ठग् भवतीति भावः । ननु परिमाणात्पृथक्संख्याग्रहणं व्यर्थम् , परिमीयते परिच्छिद्यते येन तत्परिमाणं संख्ययापि च परिच्छिद्यत इति सापि परिमाणमेवेति चेत् । अत्र श्लोकवार्तिकम्-'उर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्संख्या बाह्या तु सर्वतः' । अस्यार्थ:-तुलादावारोप्य येन द्रव्यान्तरपरिच्छिनगुरुत्वेन पलादिशब्दवाच्येन पाषाणादिना सुवर्णादेर्गुरुत्वमुन्मीयते तदुन्मानम् । पारोह उच्छ्रायः, परिणाहो विस्तारः, ताभ्यामारोहपरिणाहाभ्यां खगताभ्यो यने काष्ठादिनिर्मितेन ब्रीह्यादिः परिमीयते तत्परिमाणं प्रस्थादि । परिः सर्वतोभावे, आयामो दैर्घ्यम , स येन मीयते तत्प्रमाणम् । तच्च क्वचित्तिर्यगवस्थितस्य वस्तुनो भवतियथा वस्त्रादेर्हस्तादिः। क्वचिदूधिोभागावस्थितस्य भवति-यथा हास्तिनमुदकम् । ऊरुद्वयसमुदकमिति। संख्या तु उन्मानपरिमाणप्रमाणेभ्यः पलादिप्रस्थादिहस्वादिभ्यस्त्रिभ्यो बहिर्भूता एकत्वद्वित्वादिरिति इह संख्यापरिमाणयोरेव प्रकृतत्वेऽप्युन्मानप्रमाणयोर्विवेचनं प्रसङ्गात्कृतमिति बोध्यम् । असमासे निष्कादिभ्यः । निष्क