________________
४८] सिद्धान्तकौमुदी। तद्धितेष्वाहीयमिन्स्यायाकारीयो देशः। इतिशब्दो लौकिकी विवक्षामनुसारयति । तेनेह न-प्रासादो देवदत्तस्य स्यादिति । १६७६ परिखाया ढम् । (५-१-१७) पारिखेयी भूमिः।
इति तद्धितेषु छयतोः पूर्णोऽवधिः । अथ तद्धितेष्वाहीयप्रकरणम् । ३३ ।
१६८० प्राग्वतेष्ठम् । (५-१-१८) 'तेन तुल्यम्..' (सू १७७८) प्राकारीयो देश इति । प्रायेण प्राकारोऽस्मिन्देशे संभाव्यत इत्यर्थः । देशस्य तद्योग्यपाषाणेष्टकादिबहुलत्वादिति भावः । अनेन 'तदर्थ विकृतेः' इत्यनुवृत्ताविह न स्यादिति सूचितम् । ननु प्रासादो देवदत्तस्य स्यादित्यत्रातिप्रसङ्गः स्यादित्यत आह-इतिशब्दो लौकिकी विवक्षामिति । शिष्टव्यवहारमित्यर्थः । परिखाया ढञ् । पूर्वसूत्रविषये इति शेषः । पारिखेयी भूमिरिति । परिखा अस्या अस्ति, अस्यामस्तीति वा विग्रहः । परिखायोग्येत्यर्थः । छ्यतोः पूर्णो: ऽवधिरिति । 'प्राग्वतेष्ठञ्' इत्यारभ्य 'द्वित्रिपूर्वादण च' इत्यन्तैः सूत्रः प्रत्ययविशेषेष्वनुक्रान्तेषु 'तेन क्रीतम्' इति पठितम् । ततश्च 'प्राक्क्रीतात्-'' इत्युक्तेस्तेष्वपि सूत्रेषु छयतोरनुवृत्तिः कुतो नेति न शङ्कयम् , प्रत्ययविशेषाणां श्रवणे तयोरनुवृत्त्यसंभवादिति भावः।
इति तद्धितेषु छयतोरवधिः। अथ आीयाः । प्राग्वतेः । वतिशब्दस्तद्धटितसूत्रपर । तदाह-तेन तुल्यमिति । 'तेन तुल्यम्-' इत्यतः प्राग येषु सूत्रेषु अर्था एव निर्दिश्यन्ते नतु विहितं प्रत्ययः स्याद् इति, 'सम्भावनेऽलमिति च' इत्यादिना सम्भावने लिङ् । इष्टकानां बहुत्वेन प्राकार आसां स्यादिति तत्सम्भाव्यते । देशस्य हि गुणेन प्राकारोऽस्मिन्स्यादिति सम्भाव्यते । इह प्रकृतिविकारभावस्तादर्थ्य च न विवक्षितम् , किंतु योग्यतामात्रम् , तेन पूर्वस्यायमविषयः । द्विस्तच्छब्दस्य ग्रहणं स्पष्टप्रतिपत्त्यर्थम् । 'तदस्यास्त्यस्मिन्-' इतिवत्सकृत्तच्छब्दप्रहणेनैवेष्टसिद्धेः ।
इति तत्त्वबोधिन्यां छयद्विधिप्रकरणम् । प्राग्वतेष्ठञ् । 'ठञ्' इत्येव वक्तव्ये 'प्राग्वतेः' इति वचनं मध्ये योऽधिकारवानपवादः, 'सर्वभूमिपृथिवीभ्यामणी' 'शीर्षच्छेदाद्यच्च' इत्येवमादि, तेन विच्छेदेऽपि 'पारायण-' इत्यादौ ठमेव यथा स्यादित्येवमर्थम् । न चैवं 'पारायण-' आदिसूत्र एव ठञ् निर्दिश्यतामिति वाच्यम् । उत्तरसूत्रे येषां पर्युदासः क्रियते गोपुच्छादीनां