SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ३२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४८७ I 1 चर्मणो ऽञ् (५-१-१५) चर्मणो या विकृतिस्तद्वाचकादम्स्यात् वर्षे इदं वार्ध चर्म । वारत्रं चर्म । १६७८ तदस्य तदस्मिन्स्यादिति । ( ५-१-१६) प्राकार प्रासामिष्टकानां स्यात्प्राकारीया इष्टकाः । प्रासादीयं दारु । प्राकारोऽक्रियते । चर्मण्यपीति । चर्मणि प्रकृतित्वेन वाच्येऽपि श्रयं य एव 'चर्मणोऽव्' इत्य परमपि पूर्वविप्रतिषेधेन बाधित्वा भवतीत्यर्थः । एतच्च 'उगवादिभ्यः - ' इति सूत्रभाष्ये स्थितम् । श्रपानह्यमिति । उपानदर्थं चर्मेत्यर्थः । चर्मणोऽञ् । चर्मण इति पष्ठ्यन्तं विकृतावन्वेति तदाह - चर्मणो या विकृतिः तद्वाचकादिति । तादर्थ्यचतुर्थ्यन्तादिति शेषः । श्रञ् स्यादिति । प्रकृतौ वाच्यायामिति शेषः । वधयै इदमिति । वृधेरौणादिके ष्ट्रनि वर्धशब्दः । टित्त्वाद् ङीप्, वर्धी चर्मरज्जुः । 'नधी वर्धी वरत्रा स्यात्' इत्यमरः । वाघ्र इदमिति पाठान्तरम् । 'वृधिवपिभ्यां रन्' इति वृधे रनि लघूपधगुणे रपरत्वे वर्धशब्दश्चमवाचकः, तस्माद्विकारे अणि डीपि वार्षी रज्जुः 1 तदस्य तदस्मिन् स्यादिति । 'तदर्थं विकृतेः प्रकृतौ' इति निवृत्तम् इति कैयटः । तदस्य स्यादिति, तदस्मिन् स्यादिति चार्थे प्रथमान्ताद्यथाविहितं प्रत्ययः स्यादित्यर्थः । स्यादित्यत्र 'संभावनेऽलमिति' इति संभावने लिङ् । प्राकार आसामिति । करणत्वस्य सम्बन्धसामान्यविवक्षायां षष्टी । श्रभिरिष्टकाभिः प्राकारः कर्तुं शक्यत इति विग्रहवाक्यस्य फलितोऽर्थः । प्राकारीया इति । प्राकारशब्दात्प्रथमान्तात् छः । इष्टकाः प्रत्ययार्थः । प्राकारपर्याप्ता इष्टका इति यावत् । प्रासादीयं दाविति । प्रासादोऽस्य स्यादिति विग्रह: । प्रासादपर्याप्तमिति यावत् । 'निरवकाशत्वे सत्येव प्रतिपदविधित्वं बलीयस्त्वे प्रयोजकम्, न तु सावकाशत्वे' इत्यनेन मुनिवचनेनानुमीयते । तेन 'खम्पि तटाकानि' इत्येव युक्तम्, परत्वान्नुम् प्रवृत्तेः । प्रतिपदोक्तत्वाद्दीर्घमाश्रित्य स्वाम्पि तटाकानीति मतं दुर्बलम् । 'अतृन् -' इति दीर्घस्य आपस्तिष्ठन्तीत्युदाहरणे सावकाशतया प्रतिपदोक्तत्वस्याबलीयस्त्वादिति । चर्मणोऽञ् । ‘तदर्थम्' इत्यादिपूर्वोक्ते श्रञ् स्यात् छस्यापवादः । 'चर्मणः' इति षष्ठी न तु पञ्चमी । पञ्चम्यां तु चर्मशब्दाच्चर्मार्थायां प्रकृतौ प्रत्ययः स्यात् 'चर्मणो द्वीपी -' इत्यादौ । न चेष्यते चार्मणो द्वीपीति तदाह - चर्मणो या विकृतिरिति । वधर्यै इति । 1 ‘वृधिवपिभ्याम्' इति रन्प्रत्यये वर्धशब्द आद्युदात्तश्चर्मवाची, 'तस्य विकारः' इत्यण् । ‘टिड्ढा-' इति ङीप् । वार्धी रज्जुः, तस्यै । वधेरैणादिके ष्ट्रनि तु वधीति भवति ततोऽनि तु वाघ्रम् | 'नधी वर्धी वरत्रा स्यात्' इत्यमरः । ' चञ्चाः पश्य, वधिकाः पश्य' इति भाष्यम् । तदस्य । प्रथमासमर्थात्प्रातिपदिकात्षष्ठ्यर्थे सप्तम्यर्थे च यथा
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy