________________
५०२ ]
सिद्धान्तकौमुदी ।
[तद्धितेष्वाय
( ५-१-४३ ) । सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः । पार्थिवः । १७१० लोकसर्वलोकाट्ठञ् । ( ५-१-४४ ) 'तत्र विदितः' इत्यर्थे । लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः सार्वलौकिकः । १७११ तस्य वापः । ( ५-१-४५ ) उप्यतेऽस्मिन्निति वापः क्षेत्रम् | प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् । खारीकम् । १७१२ पात्रात्ष्ठन् । ( ५- १ - ४६ ) पात्रस्य वापः क्षेनं पात्रिकम्, पात्रिकी क्षेत्रभक्तिः । १७१३ तदस्मिन्वृद्धयायलाभशुल्कोपदा दीयते । ( ५-१-४७ ) वृद्धिर्दीयते इत्यादिक्रमेण प्रत्येकं
इत्यनुवर्तते । 'तस्य निमित्तं संयोगोत्पात' इति तु निवृत्तम्, पुनः 'तस्य' इत्युक्तेः । तस्येश्वर इत्यर्थे षष्ठयन्तात्तत्र विदित इत्यर्थे तु सप्तम्यन्ताद् अस्त इत्यर्थः । योगविभागो यथासंख्यनिवृत्त्यर्थः, उत्तरसूत्रे 'तत्र विदितः' इत्यस्यैवानुवृत्त्यर्थश्च । लोकसर्व । तत्र विदित इत्यर्थ इति । योगविभागासामर्थ्यात् 'तम्येश्वरः' इति नानुवर्तत इति भावः । लौकिक इति । लोकेषु विदित इत्यर्थ: । सर्वलोकशब्दे विशेषमाह – अनुशतिकादित्वादिति । तस्य वापः । अस्मिन्नर्थे षष्ठन्ताद्यथाविहितं ठञादयः स्युरित्यर्थः । प्रास्थिकमिति । स्थपरिमितबीजवापयोग्यं क्षेत्रमित्यर्थः । श्रर्थात् -' इति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीयष्ठञ् । द्रौणिकमिति । निष्कादित्वाट्ठक् । खारीकमिति । खाईन् । द्रोणस्य खार्याश्च वाप इत्यर्थः । पात्रात् ष्ठन् । 'तस्य वापः' इत्येव । पात्रिकमिति ! पात्रस्य वाप इत्यर्थः । षित्त्वं ङीषर्थमित्याह - पात्रिकीति । तदस्मिन् । वृद्धि, श्राय, लाभ, शुल्क, उपदा एष द्वन्द्वात्प्रथमाबहुवचनम् ननु तर्हि दीयत इति कथमेकवचनमित्यत आह-वृद्धिर्दीयत इत्यादि कमेण । एवं च तदस्मिन्वृद्धिर्दीयते, तदस्मिन् आयो दीयते, तदस्मिन् लाभो दीयते, तदस्मिन् शुल्को दीयते, तदस्मिन्नुपदा दीयते इत्यर्थेषु प्रथमान्ताद्यैथाविहितं ठञादयः आभ्यां यथासंख्यमणनौ स्तः । तस्येश्वरः । 'तस्य निमित्तम्' इत्यतोऽनुवृत्त्यैव सिद्धे पुनः 'तस्य' इति निर्देशो निमित्तरूपप्रत्ययार्थस्य निवृत्तये । अन्यथा हि संयोगोत्पाताविवेश्वरोऽपि प्रत्ययार्थस्य विशेषणं संभाव्येत । तत्र विदित इति च । योगविभाग उत्तरार्थो यथासंख्यनिवृत्त्यर्थश्च । तस्य वापः । 'तस्य' इति वापापेक्षया कर्मणि षष्ठीत्याह - प्रस्थस्येति । कर्तरि षष्ठयां तु देवदत्तस्य वापः क्षेत्रमित्यादौ स्यादिति भावः । खारीकमिति । 'खार्या ईकन्' । तदस्मिन् । प्रथमासमर्थाद् अस्मिन् इति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति । शुल्कग्रहणं प्रपञ्चार्थम्, तस्याप्याअविशेषत्वात् । तथा च 'ठगायस्थानेभ्यः' इति ठग् भवति, शौल्कशालिक इति