________________
प्रकरणम् ३३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५०३ सम्बन्धादेकवचनम् । पक्ष अमिन् वृद्धिः प्रायः लाभः शुल्कम् उपदा वा दीयते पञ्चकः । शतिकः, शत्यः । साहनः । उत्तमर्णेन मूलातिरिक्त प्रामं वृद्धिः । प्रामादिषु स्वामिग्राह्यो भाग प्रायः । विक्रेत्रा मूल्यादधिकमासं लाभः । रक्षानिवेशो राजभागः शुल्कः । उस्कोच उपदा । 'चतुर्थ्यर्थे उपसंख्यानम्' (वा ३०३६ )। पच अस्मै वृद्धयादिर्दीयते पञ्चको देवदत्तः । 'सममब्राह्मणे दानम्' इतिवदधिकरणस्वविवक्षा वा । १७१४ पूरणार्धाहन् । (५-१-४८) यथाक्रमं ठक्टिठनोरपवादः । द्वितीयो वृद्धयादिरसिन्दीयते द्वितीयिकः । तृतीयिकः । अधिकः । अंर्धशब्दो रूपकस्यार्धे रूढः । १७१५ भागाद्यच्च । (५-१-४६) चाट्ठन् । भागशब्दोऽपि रूपकस्यार्धे रूढः । स्युरित्यर्थः । पञ्चक इति । 'संख्यायाः-' इति कन् । शतिकः, शत्य इति । शतमस्मिन्वृद्धिः, प्रायः, लाभः, शुल्कः, उपदा वा, दीयत इति विग्रहः । 'शताच-' ठन्यतौ । साहस्र इति । सहस्रमस्मिन्दीयते इत्यादि विग्रहः । 'शतमानसहस-' इत्यण । रक्षानिर्वेश इति । रक्षा प्रजापरिपालनम् , तदर्थो निर्देशो मृतिः, रक्षानिवेशः । उत्कोच इति । मह्यं किञ्चिद्दत्तं चेत् तव राजद्वारेऽनुकूलो भवामीत्यादि समयं कृत्वा यद् गृह्यते तदुत्कोच इत्युच्यत इत्यर्थः । चतुर्थ्यर्थ इति । तदस्मै वृद्धयादि दीयते इत्युपसंख्यातव्यमित्यर्थः । सममब्राह्मणे इति । एवं च संप्रदानस्यैवाधिकरणत्वविवक्षया इष्टसिद्धरुपसंख्यानमिदं नादर्तव्यमिति भावः । पूरणार्धाट्ठन् । तदस्मिन् वृद्धयादि दीयत इत्यर्थे पूरणप्रत्ययान्तादर्धशब्दाच प्रथमान्ताहन् स्यादित्यर्थः। द्वितीयिकः । तृतीयिक इति । 'आत्-ि ' इति ठकोऽपवादष्ठन् । अधिक इति । अर्धमस्मिन्वृद्धयादि दीयत इत्यर्थः । 'अर्धाच्चेति वक्तव्यम्' इति टिठनोऽपवादष्टन् । टिठनि सति तु स्त्रियां ठीप् स्यात् । अधिकेति तु टाबेवेष्यते । रूपकस्येति । रूप्यस्य कार्षापणस्येत्यर्थः । रूढ इति । अन्यथा अर्धशब्दस्य रूप्यकसापेक्षत्वादसामर्थ्य स्यादिति भावः । रूप्यकस्यार्धे रूढ इत्यत्र प्रमाणं मृग्यम् । असामर्थ्य तु नित्यसापेक्षत्वाद्वारयितुं शक्यमित्याहुः । भागाद्यप। हरदत्तः । उपदा दीयत इति । जसः सस्य रुत्वे यत्वे च यलोपः। साहस्र इति । 'शतमान-' इत्यादिनाए । रक्षानिवेश इति । निर्वेशो मृतिः। रक्षानिमित्तको निर्वेशो रक्षानिर्देशः । सम्बन्धषष्ठया समासः । सममित्यादि । एवं च संप्रदानस्यैवाधिकरणत्वविवक्षयेष्टसिद्धौ उपसंख्यानं नादर्तव्यमिति भावः । पूरणार्धाहन् । पूर्यतेऽनेनेति पूरणोऽर्थस्तद्वाचिनोऽर्थशब्दाच ठन् स्यात् । अधिक इति । 'अर्धाचेति वक्तव्यम्' इति टिठन् प्राप्तः, सति च तस्मिन् त्रियां डीप् स्यात् । इष्यते तु