________________
५०४ ]
सिद्धान्तकौमुदी। तद्धितेष्वाहीय. भागो वृद्धयादिरस्मिन्दीयते भाग्यम् , भागिकं शतम्। भाग्या, भागिका विंशतिः । १७१६ तद्धरति वहत्यावहति भाराद्वंशादिभ्यः । (५-१-५०) वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकाद् द्वितीयान्तादित्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐतुभारिकः । 'भारावं. शादिभ्यः' इत्यस्य व्याख्यान्तरं 'भारभूतेभ्यो वंशादिभ्यः' इति । भारभूतान्वंशान्हरति वांशिकः । १७१७ वस्नद्रव्याभ्यां ठन्कनौ। (-१-५१) यथासंख्यं स्तः। वस्त्रं हरति वहत्यावहति वा वनिकः । द्रव्यकः । १७१८ सम्भवत्यवहरति पचति । (५-१-५२) प्रस्थं सम्भवति प्रास्थिक कटाहः । प्रस्थं तदस्मिन्वृद्धयादि दीयत इत्यर्थे भागशब्दात्प्रथमान्ताद्यत्प्रत्ययश्च स्यादित्यर्थः । चाट्रनिति । पूर्वसूत्रादनुकृष्यत इति शेषः । भागशब्दोऽपि रूप्यकस्यार्ध इति । वर्तत इति शेषः। तद्धरति वहति । वंशाद्भारादिभ्य इत्येकवचनबहुवचनान्तयोः सामानाधिकरण्यासंभवाद् वैयधिकरण्येनान्वयः स च व्युत्क्रमो व्याख्यानात् , तदाह-वंशादिभ्यः पर इति । द्वितीयान्तादित्यनन्तरं हरति वहति प्रावहतीत्यर्थे यथाविहितं प्रत्ययः स्यादिति शेषः । हरणं कथंचिद्देशान्तरप्रापणं चौथे वा । शकटादिना प्रापणं वहनम् । स्वसमीपं प्रापणभावहनम् उत्पादनं वा। वांशभारिक इति । 'आर्हात्-' इति ठक् । अत्र पवम्यन्तयोव्युत्क्रमेण वैयधिकरण्येन चान्वये प्रमाणाभावादाह-भाराद्वंशादिभ्य इत्यस्य व्याख्यान्तरमिति । भारात्परेभ्यो वंशादिभ्य इत्यर्थभ्रमव्यावृत्तये व्याख्य न्तरं विशदयतिभारभूतेभ्यो वंशादिभ्य इतीति । वंशादिशब्दानां भारभृतत्वं तु भारभूतवंशादिवृत्तेर्बोध्यम् । अस्मिन्व्याख्याने भारादित्येकवचनमार्षम् । यद्वा प्रत्येकान्वयाभिप्रायम् । वस्तुतो भारभूता ये वंशादयः तद्वाचिभ्य इति यावत । वस्नद्रव्याभ्याम् । 'तद्धरति वहत्यावहति' इत्यनुवर्तत इत्यभिप्रेत्याह-वस्नं हरतीत्यादि । संभवत्यवहरति । तद् इति द्वितीयान्तमनुवर्तते । द्वितीयान्तात्संभवतीत्याद्यर्थेषु यथाविहितं प्रत्ययः स्यादित्यर्थः । प्रास्थिक इति । 'आत्'ि इत्यत्र परिमाणपर्युदासाट्ठगभावे प्राग्वतीयष्ठञ् । ननु संभवतीत्यस्य उपपद्यत इत्यटाप् । रूपकस्येति । रूपकं कार्षापणम् । रूढ इति । तथा च भागवव्यसापेक्षत्वेनासामध्यमिह नोद्भावनीयमिति भावः । भारभूतेभ्यो वंशादिभ्य इति। ननु वंशादयः शब्दास्ते कथं भारभूता इत्यत आह-भारभूतानिति । भारशब्दोऽर्थद्वारा वंशादीनां विशेषणमिति भावः । 'भारेभ्यः' इति वक्तव्ये प्रत्येकं सम्बन्धविवक्षया सूचे 'भारात्' इति निर्देशः । वस्तिक इति । वनं मूल्यम् । सम्भवत्य