________________
६१० ]
सिद्धान्तकौमुदी । [तद्धितेषु प्रागिवीय.
स्थविष्ठः । दविष्ठः । यविष्ठः । वसिष्ठः । चेपिष्ठः । क्षोदिष्ठः । एवम् ईस् । ह्रस्वतिप्रतुद्राणां पृथ्वादित्वात् हसिमा । क्षेपिमा । तोदिमा । २०१६ प्रियस्थिर स्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवहिगर्वत्राधिवृन्दाः । ( ६-४- १५७ ) प्रियादीनां क्रमात्प्रादयः स्युरिष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः । बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः ।
। 1
'तुरिष्ठेमेयस्सु' इत्यतस्तदनुवृत्तेरिति भावः । स्थविष्ठ इति । स्थूलशब्दादिष्ठनि ल इत्यस्य लोपे ऊकारस्य गुण श्रकारः, श्रवादेश इति भावः । ओर्गुणस्तु न प्रवर्तते, यणादिलोपस्याभीयत्वेनासिद्धत्वात् । एवमग्रेऽपि । दविष्ठ इति । दूरशब्दादिष्ठनि र इत्यस्य लोपे ऊकारस्य गुणे श्रवादेशः । यविष्ठ इति । युवन्शब्दादिष्ठनि वन्नित्यस्य लोपे ऊकारस्य गुणे श्रवादेशः । परमित्यनुक्तौ यु इत्यस्यापि यणादेर्लोपः स्यात् । ह्रसिष्ठ इति । ह्रस्वशब्दादिष्ठनि व इत्यस्य लोपः । परमित्यनुक्तौ अत्र रादेर्लोपः स्यात् । क्षेपिष्ठ इति । क्षिप्रशब्दादिष्ठनि र इत्यस्य लोपे इकारस्य गुणः । ‘इको गुणवृद्धी' इत्युक्तेः न प्रकारस्य गुणः । क्षोदिष्ठ इति । क्षुदशब्दादिष्ठनि र इत्यस्य लोपः, उकारस्य गुणः । एवमीयस् इति । स्थवी - यानू, दवीयान् यवीयान्, हसीयान्, क्षेपीयान्, क्षोदीयान् । इमनिजनुवृत्तेः प्रयोजन - माह ह्रस्वक्षिप्रेति । प्रियस्थिर । प्रियादीनामिति । प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप, दीर्घ, वृन्दारक एषां दशानामित्यर्थः । प्रादय इति । प्र, स्थ, स्फ, वर्, बंहि, गर्, वर्षि, त्र, द्राघि, वृन्द एते दशेत्यर्थः । इष्टादिष्विति । इष्ठेमेयस्स्वित्यर्थः। ‘तुरिष्ठेमेयःसु' इत्यतः तदनुवृत्तेरिति भावः । प्रेष्ठ इति । प्रियशब्दादिष्ठनि प्रकृतेः प्रादेशः । याभीयत्वेनासिद्धत्वादकारोच्चारणसामर्थ्याच्च न टिलोपः । श्रद्गुणः । स्थेष्ठ इति । स्थिरशब्दादिष्ठनि प्रकृतेः स्थादेशः । प्रकृतिभावान्न टिलोपः । स्फेष्ठ इति । स्फिरशब्दस्य इष्ठनि स्फादेशः । वरिष्ठ इति । उरुशब्दाद् इष्ठनि वर् आदेशः । बंहिष्ठ इति । बहुलशब्दस्य बंहि इत्यादेशः । इकार उच्चारणार्थः । अन्यथा अभीयत्वेनासिद्धत्वाद् उच्चारणानामर्थ्याद्वा इकारस्य लोपो न स्यात् । गरिष्ठ इति । गुरुशब्दस्य इष्ठनि गर् श्रादेशः । वर्षिष्ठ इति । वृद्धशब्दस्य इष्ठनि वर्षिरादेशः बंहिवदिकार उच्चारणार्थः । त्रपिष्ठ इति । तृप्रदेर्लोपो माभूदिति । पूर्वग्रहणं तु स्पष्टार्थम् । परस्मिन् लुप्ते सामर्थ्यात्पूर्वस्यैव गुणलाभात् । स्थविष्ठ इति । न चात्र 'ओर्गुणः' इत्येव सिद्धे गुणग्रहणं व्यर्थमिति वाच्यम् । परयणादिलोपस्याभीयत्वेनासिद्धत्वात् क्षिप्रक्षुद्रयोर्गुणस्य प्राप्यभावात्, क्षेपिष्ठः, क्षोदिष्ठ इत्यसिद्धिप्रसङ्गाच्च । एवमिति । प्रेयान्, स्थेयान् स्फेयान्
"