________________
प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६११ द्राधिष्ठः । वृन्दिष्ठः । एवमीयसुन् । प्रियोरुबहुलगुरुदीर्घायां पृथ्यादित्वात् प्रेमा इत्यादि । २०१७ बहोर्लोपो भू च बहोः । ( ६-४-१५८ ) बहोः परयोरिमेयसोर्लोपः स्याद्वहोश्च भूरादेशः । भूमा, भूयान् । २०१८ इष्ठस्य यिट् च । ( ६-४-१५९ ) बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च । भूयिष्ठः । २०१६ युवाल्पयोः कनन्यतरस्याम् । ( ५-३ - ६४ ) एतयोः कनादेशो वा स्यादिष्ठेयसोः । कनिष्ठः, कनीयान् । पक्षे यविष्ठः श्रल्पिष्ट इत्यादि । २०२०
,
शब्दस्य इष्ठनि त्रप् आदेशः अदुपधः । तृपधातोस्तृप्त्यर्थ का दौणादिके रकि तृप्रशब्दः । द्राघिष्ठ इति । दीर्घशब्दस्य इष्ठनि द्राधिरादेशः । बंहिवदिकार उच्चारणार्थः । वृन्दिष्ठ इति । वृन्दारकशब्दस्य इष्ठनि वृन्द आदेशः । प्रकार उच्चारणार्थः । एवमीयसुन्निति । प्रेयान्, स्थेयान् स्फेयान्, वरीयान् बंहीयान्, गरीयान्, वर्षीयान् त्रपीयान् द्राघीयान् वृन्दीयान् । अत्र इमनिजननुवृत्तेः प्रयोजनमाह प्रियोरुबहुलेति । इत्यादीति । वरिमा, बंहिमा, गरिमा, द्राघिमा । बहोर्लोपः । भू इति प्रथमाकम् । 'इष्ठेमेयस्सु' इत्यनुत्तम् । तत्र इष्ठन उत्तरसूत्रे कार्यान्तरविधानादिह तस्य न संबन्धः । तदाह बहोः परयोरिति । 'आदेः परस्य' इति प्रत्यययोरादिलोपः । भूमेति । बहुत्वमित्यर्थः । बहुशब्दात् पृथ्वादित्वादिमनिचि प्रकृतेर्भूभावः, प्रत्ययादेरिकारस्य लोपश्च । भूयानिति । श्रयमनयोरतिशयेन बहुरि त्यर्थः । वैपुल्यवाचकाद् बहुशब्दादीयसुनि प्रकृतेर्भूभावः, प्रत्ययादेरिकारस्य लोपश्च । भूभावस्याभीयत्वेनासिद्धत्वादोर्गुणो न भवति । इष्ठस्य यिट् च । लोपः स्यादिति । 'आदेः परस्य ' इति बोध्यम् । यिटि टकार इत् । इष्ठस्यादिलोपे कृते यिडागमः । ट इत् । दित्त्वात् प्रत्ययस्याद्यवयवः । बहोर्भूभावस्तु पूर्वसूत्रेण सिद्ध एव । यदि तु लोप इति निवृत्तं तदा यकार आगम इति भाष्यम् । युवाल्पयोः । इष्ठेयसोरिति । अजादी इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । कनिष्ठः, कनीयानिति । श्रयमनयोरतिशयेन युवा अल्पो वेत्यर्थः । पक्षे यविष्ठ इति । युवन्शब्दादिष्ठनि 'स्थूलदूर - ' इति वनो लोपे उकारस्य गुणे श्रवादेशे रूपम् । अल्पिष्ठ इति । श्रल्पवरीयानित्यादि । इमेयसोर्लोप इति । स च 'प्रादेः परस्य' इत्यादेरेव भवति । इष्टस्य यिट् च । पूर्वसूत्रं संपूर्णमनुवर्तते तदाह बहोरित्यादि । भूरादेशश्चेत्यपि ज्ञातव्यम् । भूयिष्ठ इति । अत्र इष्ठस्यादिलोपे कृते यिशब्दे श्रागमः । यद्वा लोपापवादो यकार आगमः, इकारस्तूच्चारणार्थः । पक्षद्वयमपीदं भाष्यारूढम् । युवाल्पयोः । युवेति स्वरूपग्रहणम्, न तु युवापत्यस्य अल्पसाहचर्या द्वियाख्यानाच्च । 'अजादी' इत्यनुवर्तनादजाद्योरेव पूर्वयोर्न तु तरप्तमपौरित्याशयेन व्याचष्टे इष्ठेय