________________
६१२ ]
सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीय विन्मतोलुक् । (५-३-६५ ) विनो मतुपश्च लुक्स्यादिष्ठेयसोः । अतिशयेन स्रग्वी नजिष्ठः, स्त्रजीयान् । अतिशयेन त्वग्वान् स्वचिष्ठः, स्वचीयान् । २०२१ प्रशंसायां रूपप् । (५-३-६६) सुबन्तात्तिङन्ताश्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् । २०२२ ईषदसमाप्ती कल्पब्देश्यदेशीयरः । (५-३-६७) ईषदूनो विद्वान्विद्वत्कल्पः । यशस्कल्पम् । यजुष्कल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् । २०२३ विभाषा सुपो बहुच्पुरशब्दादिष्ठनि टिलोपः । इत्यादीति। यवीयान् , अल्पीयानिति रूपद्वयमादिपदग्राह्यम् । विन्मतोलृक् । इष्ठेयसोरिति । अजादी इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । स्रजिष्ठ इति। स्रग्विन्शब्दादिष्ठनि विनो लुकि तन्निमित्तपदत्वभङ्गात् कुत्वनिवृत्तिरिति भावः। एवं सजीयानिति । त्वचिष्ट इति। त्वग्वच्छब्दादिष्ठनि मतुपो लुकि तन्निमित्तपदत्वभङ्गात् कुत्वनिवृत्तिरिति भावः । एवं त्वचीयान् । अत एव ज्ञापकादाभ्यामिष्ठन्नीयसुनौ। प्रशंसायां रूपप। सुबन्तात्तिङन्ताञ्चेति । शेषपूरणमिदम् । 'तिङश्च' इत्यनुवृत्तम्, 'प्रातिपदिकात्' इति च । 'घकाल' इत्यादिलिङ्गात् सुबन्तादिति लभ्यत इति भावः । प्रशंसाविशिष्टे स्वार्थे वर्तमानात् तिङन्तात्सुबन्ताच्च रूपबिति फलितम् । पचतिरूपमिति । प्रशस्ता पाकक्रियेत्यर्थः। अत्र भाष्ये 'क्रियाप्रधानमाख्यातं द्रव्यप्रधानं नाम' इति सिद्धान्तितम् । 'पचतोरूपं पचन्तिरूपमित्यत्र च न द्विवचनबहुवचने। तिव द्वित्वबहुत्वयोरुतत्वात् । एकवचनं तु उत्सर्गतः करिष्यते, नपुंसकत्वं तु लोकात्' इत्यपि भाष्ये स्पष्टम् । ईषदसमाप्तौ । ईषदसमाप्तिविशिष्टेऽर्थे विद्यमानात् सुवन्तात् स्वार्थे कल्पप् , देश्य, देशीयर् एते प्रत्ययाः स्युरित्यर्थः। विद्वत्कल्प इति । ईषन्न्यूनवै. दुष्यवानित्यर्थः । यशस्कल्पमिति । असंपूर्ण यश इत्यर्थः । 'सोऽपदादौ' इति सत्वम् । यजुष्कल्पमिति । असंपूर्ण यजुरित्यर्थः । 'इणः षः' इति षत्वम् । विद्वद्देश्य इति । असम्पूर्णवैदुष्यवानित्यर्थः । एवं विद्वद्देशीयः। अत्र सर्वत्र सोरिति । विन्मतोलृक् । त्रजिष्ठ इति । विनो लुकि कृते भत्वात्पदकार्याभावः । अस्मादेव ज्ञापकादगुणवचनत्वेऽपि विन्मतोरजादी भवतः। प्रशंसायां रूपप् । प्रकृत्यर्थस्य परिपूर्णतेह प्रशंसा, न तु स्तुतिः । तेनेहापि भवति । चौररूपोऽयं यदक्ष्णोरप्यञ्जनं हरति । गुप्तवस्त्वपहरणेन चौर्य परिपूर्यते । पचतिरूपमिति। 'क्रियाप्रधानमाख्यातम्' क्रियायाश्चासत्त्वरूपत्वेऽपि औत्सगिकमेकवचनं भवति । तेन पचतोरूपं पचन्तिरूपमित्यादि । इह प्रथमैव विभक्त्यन्तराणामप्राप्तेरिति बहवः । वस्तुतस्तु पश्येत्यादियोगे कर्मणि द्वितीयापि सुलभा । क्लीबत्वं लोकात् । एवं पचति